श्रीमथुरास्तवः
मुक्तेर्गोविन्दभक्तेर्वितरणचतुरं सच्चिदानन्दरूपं
यस्यां विद्योति विद्यायुगलमुदयते तारकं पारकं च ।
कृष्णस्योत्पत्तिलीलाखनिरखिलजगन्मौलिरत्नस्य सा ते
वैकुण्ठाद् या प्रतिष्ठा प्रथयतु मथुरा मङ्गलानां कलापम् ॥ १॥
कोटीन्दुस्पष्टकान्ती रभसयुतभवक्लेशयौधेरयोध्या
मायावित्रासिवासा मुनिहृदयमुषो दिव्यलीला स्रवन्ती ।
साशीः काशीशमुख्यामरपतिभिरलं प्रार्थितद्वारकार्या
वैकुण्ठोद्गीतकीर्तिर्दिशतु मधुपुरी प्रेमभक्तिश्रियं वः ॥ २॥
बीजं मुक्तितरोरनर्थपटलीनिस्तारकं तारकं
धाम प्रेमरसस्य वाञ्छितधुरासम्पारकं पारकम् ।
एतद् यत्र निवासिनामुदयते चिच्छक्तिवृत्तिद्वयं
मथ्नातु व्यसनानि माथुरपुरी सा वः श्रियं च क्रियात् ॥ ३॥
अद्यावन्ति पतद्ग्रहं कुरु माये शनैर्वीजय
च्छत्रं काञ्चि गृहाण काशि पुरतः पादूयुगं धारय ।
नायोध्ये भज सम्भ्रमं स्तुतिकथां नोद्गारय द्वारके
देवीयं भवतीषु हन्त मथुरा दृष्टिप्रसादं दधे ॥ ४॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां मथुरास्तवः समाप्तः ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):