अक्षर आकार:

मङ्गलाचरणम् ५

Mangalacharanam 5

मङ्गलाचरणम् ५

श्रीगणेशाय नमः यत्पाद-द्वय-सेवनान्मनुजनो मोहार्णवं लङ्घयन् ख्यातिं याति परामिलातल इह प्राज्यश्रियं धारयन् । भव्यं भव्यगुणाऽन्वितं बुधवरं सर्वार्थदं मङ्गलं श्रीमन्तं पितरञ्च सन्तशरणं नित्यं नमस्कुर्महे ॥ १॥ श्रीमद्वाचमुमेश्वरौ प्रणिपतन्नाराधनीयान् गुरून् सर्वेषां हितकाम्ययाऽत्र विविधान् स्वाऽभीष्टप्राप्त्यर्थकान् । ख्यातानां बहु-स्तोत्र-भक्तवचसां सङ्गृह्य ग्रन्थे मया स्तोत्राणां शिवदत्तमिश्रविदुषा चाऽऽलेखि रत्नाकरः ॥ २॥ जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद् बलिं बध्नता स्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धर्तुं धराम् । पार्वत्या महिषासुर-प्रमथने सिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितये पायात् स नागाननः ॥ ३॥ विघ्न-ध्वान्त-निवारणैक-तरणि-र्विघ्नाटवी-हव्यवाड् विघ्न-व्याल-कुलाभिमान-गरुडो विघ्नेभ-पञ्चाननः । विघ्नोत्तुङ्ग-गिरिप्रभेदनपवि-र्विघ्नाम्बुधेर्वाडवो विघ्नाघौघ-घन-प्रचण्डपवनो विश्वेश्वरः पातु नः ॥ ४॥ स जयति सिन्धुरवदनो देवो यत्पादपङ्कजस्मरणम् । वासरमणिरिव तमसां राशिं नाशयति विघ्नानाम् ॥ ५॥ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ६॥ मूर्तित्वे परिकल्पितः शशभृतो वर्त्माऽपुनर्जन्मना- मात्मेत्यात्मविदां ऋतुश्च यजतां भर्ताऽमर-ज्योतिषाम् । लोकानां प्रलयोद्भव-स्थिति-विभुश्चानेकधा यः श्रुतौ वाचं नः स ददात्वनेककिरणस्त्रैलोक्यदीपो रविः ॥ ७॥ व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ८॥ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शम्भुर्भगवान् बादरायणः ॥ ९॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ १०॥ इति शिवदत्तमिश्रविरचितं मङ्गलाचरणं समाप्तम् ।