अक्षर आकार:

मङ्गलाचरणम् ४

mangalAcharaNam 4

मङ्गलाचरणम् ४

श्रीगणेशाय नमः । श्रीमते रामानुजाय नमः । श्रीमद्वेङ्कटेशाय नमः । वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ १॥ सर्वरूपमयी देवी सर्वं देवीमयं जगत् । अतोऽहं विश्वरूपां तां नमामि परमेश्वरीम् ॥ २॥ उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम् । सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम् ॥ ३॥ श्रीरामचन्द्र रघुपुङ्गव राजवर्य राजेन्द्र राम रघुनायक राघवेश । राजाधिराज रघुनन्दन रामचन्द्र दासोऽहमद्य भवतः शरणागतोऽस्मि ॥ ४॥ महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥ ५॥ राधा साध्यं साधनं यस्य राधा मन्त्रो राधा मन्त्रदात्री च राधा । सर्वं राधा जीवनं यस्य राधा राधा वाचिं किं तस्य शेषम् ॥ ६॥ कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ ७॥ अशेषसंसारविहारहीन- मादित्यगं पूर्णसुखाभिरामम् । समस्तसाक्षिं तमसः परस्ता- न्नारायणं विष्णुमहं भजामि ॥ ८॥ यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ ९॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः ॥ १०॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ११॥ लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ १२॥ श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ १३॥ इति श्रीमङ्गलाचरणम् ४ ॥