अक्षर आकार:

मङ्गलाचरणम् ३

mangalAcharaNam 3

मङ्गलाचरणम् ३

॥ श्रीमद्विठ्ठलेशचरणकमलेभ्यो नमः ॥ ॥ श्रीमद्गोकुलेशो जयति ॥ निजमुरलिकानादाह्वानागतव्रजसुन्दरी- निरुपमनवस्नेहाऽम्भोधेर्विचित्रस्मरोर्मिभिः । किमपि परितश्चार्द्रार्द्रोऽस्तु प्रभुः प्रकटीभवन् प्रतियुवतिसम्भेदेनास्मद्दशां विषयः सदा ॥ १॥ मायावादिकरीन्द्रदर्पदलनेनास्येन्दुराजोद्रत- श्रीमद्भागवताख्यदुर्लभसुधावर्षेण वेदोक्तिभिः । राधावल्लभसेवया तदुदितप्रेम्णोपदेशैरपि श्रीमद्वल्लभनामधेयसदृशो भावी न भूतोऽस्त्यपि ॥ २॥ सायङ्कुञ्जालयस्थासनमुपविलसत्स्वर्णपात्रं सुधौतं राजद्यज्ञोपवीतम्परितनुवसनङ्गोरमम्भोजवक्त्रम् । प्राणानायम्य नासापुटनिहितकरङ्कर्णराजद्विमुक्तं वन्देऽर्धोन्मीलिताक्षं मृगमदतिलकं विठ्ठलेशं सुकेशम् ॥ ३॥ नमामि श्रीपतिं देवं वल्लभं विठ्ठलात्मजम् । यः करोति सदारण्ये मङ्गलं जनवर्जिते ॥ ४॥ वन्देऽहं गोकुलाधीशं भगवन्तं कृपानिधिम् । पावनो यामुने जातः कलौ घोरे द्विजेषु यः ॥ ५॥ नमामि गोकुलाधीशं लीलामानुषविग्रहम् । व्रजाधीशं विश्वविभुं पार्वतीप्राणवल्लभम् ॥ ६॥ राक्षिता स्रग् जहाङ्गीराद्‍ध्यधर्माद्रक्षिता जनाः । विद्रूपाद्रक्षितो धर्मः पातु वः पार्वतीपतिः ॥ ७॥ मायावादिचिद्रूपादिप्तिबन्धनिवारकः । दर्पहा दुर्मदान्धानां पायाद्वो भक्तभूषणः ॥ ८॥ इति मङ्गलाचरणं सम्पूर्णम् ।