अक्षर आकार:

मङ्गलाचरणम् २

mangalAcharaNam 2

मङ्गलाचरणम् २

श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः ॥ चिन्ता च सन्तानहन्तारो यत्पादाम्बुजरेणवः । स्वीयानां तान्निजाचार्यान्प्रणमामि मुहुर्मुहुः ॥ १॥ यदनुग्रहतो जन्तुः सर्वदुःखातिगो भवेत् । तमहं सर्वदा वन्दे श्रीमद्वल्लभनन्दनम् ॥ २॥ यदुक्तं तातचरणैः श्रीकृष्णः शरणं मम । अत एवास्ति नैश्चित्त्यमैहिके पारलौकिके ॥ ३॥ मम चित्तस्य विश्वासः श्रीगोपीजनवल्लभे । यदा तदा कृतार्थोऽहं शोचनीयो न कर्हिचित् ॥ ४॥ इति श्रीविठ्ठलेश्वरविरचितं मगलाचरणं समाप्तम् ।