अक्षर आकार:

मकारादि श्रीमत्स्याष्टोत्तरशतनामस्तोत्रम्

makArAdi shrImatsyAShTottarashatanAmastotram

मकारादि श्रीमत्स्याष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाय नमः । हरिः ॐ मत्स्यो महालयाम्भोधिसञ्चारी मनुपालकः । महीनौकाप्ऱिष्टदेशो महासुरविनाशनः ॥ १॥ महाम्नायगणाहर्त्रा महनीयगुणाद्भुतः । मरालवाहव्यपनच्छेत्ता मथितसागरः ॥ २॥ महासत्वो महायादो गणभुङ्मधुराकृतिः । मदोल्लुंठनसङ्क्षुब्ध सिन्धुभङ्गहतोर्थ्वखः ॥ ३॥ महाशयो महाधीरो महौषधिसमुद्धरः । महायशा महानन्दो महातेजा महावपुः ॥ ४॥ महीपङ्कवृषत्पृष्ठो महाकल्पार्णवह्रदः । मित्रशुभ्रांशुवलयनेत्रो मुखमहानभाः ॥ ५॥ महालक्ष्मीनेत्ररूपगर्वसर्वङ्कषाकृतिः । महामायो महाभूतपालको मृत्युमारकः ॥ ६॥ महाजवो महापृच्छच्छिन्नमीनादिराशिकः । महातलतलो मर्त्यलोकगर्भो मरुत्पतिः ॥ ७॥ मरुत्पतिस्थानपृष्टो महादेवसभाजितः । महेन्द्राद्यखिलप्राणिमारणो मृदिताखिलः ॥ ८॥ मनोमयो माननीयो मनस्वी मानवर्धनः । मनीषिमानसाम्भोधि शायी मनुविभीषणः ॥ ९॥ मृदुगर्भो मृगाङ्काभो मृग्यपादो महोदरः । महाकर्तरिकापुच्छो मनोदुर्गमवैभवः ॥ १०॥ मनीषी मध्यरहितो मृषाजन्मा मृतव्ययः । मोघेतरोरुसङ्कल्पो मोक्षदायी महागुरुः ॥ ११॥ मोहासङ्गसमुज्जृम्भत्सच्चिदानन्दविग्रहः । मोहको मोहसंहर्ता मोहदूरो महोदयः ॥ १२॥ मोहितोत्तारितमनुर्मोचिताश्रितकश्मलः । महर्षिनिकरस्तुत्यो मनुज्ञानोपदेशकः ॥ १३॥ महीनौबन्धनाहीन्द्ररज्जुबद्धैकश‍ृङ्गकः । महोवातहतोर्वीनौस्तम्भनो महिमाकरः ॥ १४॥ महाम्बुधितरङ्गाप्तसैकतीभूतविग्रहागः । मरालवाहनिद्रान्तसाक्षी मधुनिषूदनः ॥ १५॥ महाब्धिवसनो मत्तो महामारुतवीजितः । महाकाशालयो मूर्छत्तमोम्बुधिकृताप्लवः ॥ १६॥ मृदिताब्जारिविभवो मुषितप्राणिचेतनः । मृदुचित्तो मधुरवाङ्मृष्टकामो महेश्वरः ॥ १७॥ मरालवाहस्वापान्त दत्तवेदो महाकृतिः । महीश्लिष्टो महीनाथो मरुन्मालामहामणिः ॥ १८॥ महीभारपरीहर्ता महाशक्तिर्महोदयः । महन्महान्मग्नलोको महाशान्तिर्महन्मनाः ॥ १९॥ महावेदाभिसञ्चारी महात्मा मोहितात्मभूः । मन्त्रस्मृतिभ्रंशहेतुर्मन्त्रकृन्मन्त्रशेवधिः ॥ २०॥ मन्त्रमन्त्रार्थ तत्त्वज्ञो मन्त्रार्थो मन्त्रदैवतम् । मन्त्रोक्तकारिप्रणयी मन्त्रराशिफलप्रदः ॥ २१॥ मन्त्रतात्पर्यविषयो मनोमन्त्राद्यगोचरः । मन्त्रार्थवित्कृतक्षेमो रामं रक्षतु सर्वतः ॥ २२॥ ॥ इति मकारादि श्री मत्स्याष्टोत्तरशतनामस्तोत्रम् पराभव श्रावणशुद्ध पूर्णिमायां लिखिता रामेण समर्पिता च श्री हयग्रीव भगवच्चरणारविन्दयोर्विजयतान्तराम् ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu