अक्षर आकार:

मकारादि श्रीमत्स्याष्टोत्तरशतनामावलिः

makArAdi shrI matsyAShTottarashatanAmAvaliH

मकारादि श्रीमत्स्याष्टोत्तरशतनामावलिः

ॐ मत्स्याय नमः । ॐ महालयाम्बोधि संचारिणे नमः । ॐ मनुपालकाय नमः । ॐ महीनौकापृष्ठदेशाय नमः । ॐ महासुरविनाशनाय नमः । ॐ महाम्नायगणाहर्त्रे नमः । ॐ महनीयगुणाद्भुताय नमः । ॐ मरालवाहव्यसनच्छेत्रे नमः । ॐ मथितसागराय नमः । ॐ महासत्वाय नमः । १० ॐ महायादोगणभुजे नमः । ॐ मधुराकृतये नमः । ॐ मन्दोल्लुंठनसङ्क्षुब्धसिन्धु भङ्गहतोर्ध्वखाय नमः । ॐ महाशयाय नमः । ॐ महाधीराय नमः । ॐ महौषधिसमुद्धराय नमः । ॐ महायशसे नमः । ॐ महानन्दाय नमः । ॐ महातेजसे नमः । ॐ महावपुषे नमः । २० ॐ महीपङ्कपृषत्पृष्ठाय नमः । ॐ महाकल्पार्णवह्रदाय नमः । ॐ मित्रशुभ्रांशुवलय नेत्राय नमः । ॐ मुखमहानभसे नमः । ॐ महालक्ष्मीनेत्ररूप गर्व सर्वङ्कषाकृतये नमः । ॐ महामायाय नमः । ॐ महाभूतपालकाय नमः । ॐ मृत्युमारकाय नमः । ॐ महाजवाय नमः । ॐ महापृच्छच्छिन्न मीनादि राशिकाय नमः । ३० ॐ महातलतलाय नमः । ॐ मर्त्यलोकगर्भाय नमः । ॐ मरुत्पतये नमः । ॐ मरुत्पतिस्थानपृष्ठाय नमः । ॐ महादेवसभाजिताय नमः । ॐ महेन्द्राद्यखिल प्राणि मारणाय नमः । ॐ मृदिताखिलाय नमः । ॐ मनोमयाय नमः । ॐ माननीयाय नमः । ॐ मनस्स्विने नमः । ४० ॐ मानवर्धनाय नमः । ॐ मनीषिमानसाम्भोधि शायिने नमः । ॐ मनुविभीषणाय नमः । ॐ मृदुगर्भाय नमः । ॐ मृगाङ्काभाय नमः । ॐ मृग्यपादाय नमः । ॐ महोदराय नमः । ॐ महाकर्तरिकापुच्छाय नमः । ॐ मनोदुर्गमवैभवाय नमः । ॐ मनीषिणे नमः । ५० ॐ मध्यरहिताय नमः । ॐ मृषाजन्मने नमः । ॐ मृतव्ययाय नमः । ॐ मोघेतरोरु सङ्कल्पाय नमः । ॐ मोक्षदायिने नमः । ॐ महागुरवे नमः । ॐ मोहासङ्गसमुज्जृम्भत्सच्चिदानन्द विग्रहाय नमः । ॐ मोहकाय नमः । ॐ मोहसंहर्त्रे नमः । ॐ मोहदूराय नमः । ६० ॐ महोदयाय नमः । ॐ मोहितोत्तोरितमनवे नमः । ॐ मोचिताश्रितकश्मलाय नमः । ॐ महर्षिनिकरस्तुत्याय नमः । ॐ मनुज्ञानोपदेशिकाय नमः । ॐ महीनौबन्धनाहीन्द्ररज्जु बद्धैकश‍ृङ्गकाय नमः । ॐ महावातहतोर्वीनौस्तम्भनाय नमः । ॐ महिमाकराय नमः । ॐ महाम्बुधितरङ्गाप्तसैकती भूत विग्रहाय नमः । ॐ मरालवाहनिद्रान्त साक्षिणे नमः । ७० ॐ मधुनिषूदनाय नमः । ॐ महाब्धिवसनाय नमः । ॐ मत्ताय नमः । ॐ महामारुतवीजिताय नमः । ॐ महाकाशालयाय नमः । ॐ मूर्छत्तमोम्बुधिकृताप्लवाय नमः । ॐ मृदिताब्दारिविभवाय नमः । ॐ मुषितप्राणिचेतनाय नमः । ॐ मृदुचित्ताय नमः । ॐ मधुरवाचे नमः । ८० ॐ मृष्टकामाय नमः । ॐ महेश्वराय नमः । ॐ मरालवाहस्वापान्त दत्तवेदाय नमः । ॐ महाकृतये नमः । ॐ महीश्लिष्टाय नमः । ॐ महीनाधाय नमः । ॐ मरुन्मालामहामणये नमः । ॐ महीभारपरीहर्त्रे नमः । ॐ महाशक्तये नमः । ॐ महोदयाय नमः । ९० ॐ महन्महते नमः । ॐ मग्नलोकाय नमः । ॐ महाशान्तये नमः । ॐ महन्महसे नमः । ॐ महावेदाब्धिसंचारिणे नमः । ॐ महात्मने नमः । ॐ मोहितात्मभुवे नमः । ॐ मन्त्रस्मृतिभ्रंशहेतवे नमः । ॐ मन्त्रकृते नमः । ॐ मन्त्रशेवधये नमः । १०० ॐ मन्त्रमन्त्रार्थ तत्त्वज्ञाय नमः । ॐ मन्त्रार्थाय नमः । ॐ मन्त्रदैवताय नमः । ॐ मन्त्रोक्तकारिप्रणयिने नमः । ॐ मन्त्रराशिफलप्रदाय नमः । ॐ मन्त्रतात्पर्यविषयाय नमः । ॐ मनोमन्त्राद्यगोचराय नमः । ॐ मन्त्रार्थवित्कृतक्षेमाय नमः । १०८ ॥ इति मकारादि श्री मत्स्यावताराष्टोत्तरशतनामावलिः पराभव श्रावणशुद्ध पूर्णिमायां लिखिता रामेण समर्पिता च श्री हयग्रीवचरणारविन्दयोर्विजयतान्तराम् ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu