अक्षर आकार:

श्रीमधुसूदनस्तोत्रम्

Shri Madhusudana Stotra

श्रीमधुसूदनस्तोत्रम्

श्रीगणेशाय नमः ॥ ओमिति ज्ञानमात्रेण रोगाजीर्णेन निर्जिता । कालनिद्रां प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥ १॥ न गतिर्विद्यते चान्या त्वमेव शरणं मम । पापपङ्के निमग्नोस्मि त्राहि मां मधुसूदन ॥ २॥ मोहितो मोहजालेन पुत्रदारगृहादिषु । तृष्णया पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥ ३॥ भक्तिहीनं च दीनं च दुःखशोकातुरं प्रभो । अनाश्रयमनाथं च त्राहि मां मधुसूदन ॥ ४॥ गतागतेन श्रान्तोस्मि दीर्घसंसारवर्त्मसु । येन भूयो न गच्छामि त्राहि मां मधुसूदन ॥ ५॥ बहवो हि मया दृष्टाः क्लेशाश्चैव पृथक् पृथक् । गर्भवासे महद्दुःखं त्राहि मां मधुसूदन ॥ ६॥ तेन देव प्रपन्नोऽस्मि त्राणार्थं त्वत्परायणः । दुःखार्णवपरित्राणात् त्राहि मां मधुसूदन ॥ ७॥ वाचा यच्च प्रतिज्ञातं कर्मणा नोपपादितम् । तत्पापार्जितमग्नोऽस्मि त्राहि मां मधुसूदन ॥ ८॥ सुकृतं न कृतं किञ्चिद्दुष्कृतं च कृतं मया । संसारघोरे मग्नोऽस्मि त्राहि मां मधुसूदन ॥ ९॥ देहान्तरसहस्रेषु चान्योन्यभ्रामितो मया । तिर्यक्त्वं मानुषत्वं च त्राहि मां मधुसूदन ॥ १०॥ वाचयामि यथोन्मत्तः प्रलपामि तवाग्रतः । जरामरणभीतोऽस्मि त्राहि मां मधुसूदन ॥ ११॥ यत्र यत्र च यातोऽस्मि स्त्रीषु वा पुरुषेषु च । तत्र तत्राचला भक्तिस्त्राहि मां मधुसूदन ॥ १२॥ गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ १३॥ ऊर्ध्वपातालमर्त्येषु व्याप्तं लोकं जगत्त्रयम् । द्वादशाक्षरात्परं नास्ति वासुदेवेन भाषितम् ॥ १४॥ द्वादशाक्षरं महामन्त्रं सर्वकामफलप्रदम् । गर्भवासनिवासेन शुकेन परिभाषितम् ॥ १५॥ द्वादशाक्षरं निराहारो यः यः पठेद्धरिवासरे । स गच्छेद्वैष्णवं स्थानं यत्र योगेश्वरो हरिः ॥ १६॥ इति श्रीशुकदेवविरचितं मधुसूदनस्तोत्रं सम्पूर्णम् ॥