अक्षर आकार:

श्रीमदनगोपालस्तोत्रम्

Shri Madanagopalastotram

श्रीमदनगोपालस्तोत्रम्

वनभुवि रविकन्यास्वच्छकच्छालिपालि ध्वनियुतवरतीर्थद्वादशादित्यकुञ्जे । सकनकमणिवेदीमध्यमध्याधिरूढः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १॥ सुभगनवशिखण्डभ्राजदुष्णीषहारा- ङ्गदवलयसमुद्राध्वानमञ्जीररम्यः । वसनघुसृणचर्चामल्लिकोल्लासिताङ्गः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २॥ कटिकृतवरभङ्गन्यस्तजङ्घान्यजङ्घः करयुगधृतवंशीं न्यस्तबिम्बाधराग्रे । सुमधुरमतितिर्यग्ग्रीवया वादयंस्तां स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ३॥ विधिकृतविधुसृष्टिव्यर्थताकारिवक्त्र द्युतिलवहृतराधास्थूलमानान्धकारः । स्मितलपितमधूल्योन्मादितैतद्धृषीकः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ४॥ शरदुदितसरोजव्रातवित्रासिनेत्रऽ- न्चलकुटिलकटाक्षैर्मन्दरोड्डण्डचालैः । झटिति मथितराधास्वान्तदुग्धार्णवान्तः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ५॥ कुटिलचटुलचिल्लीवल्लिलास्येन लब्ध प्रथितसकलसाध्वीधर्मरत्नप्रसादः । तिलकवदलिकेन ध्वस्तकामेषुचापः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ६॥ शुकयुववरचञ्चुप्रांशुनासांशुसिन्धौ जनितकुलवधूटीदृष्टिमत्स्यीविहारः । स्मितलवयुतराधाजल्पमन्त्रोन्मदान्तः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ७॥ विकसदधरबन्धूकान्तरुड्डीय गन्धैः पतितमुप विधर्तुं राधिकाचित्तभृङ्गम् । दशनरुचिगुणाग्रे दत्ततत्सीधुचारः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ८॥ श्रवणमदनकन्दप्रेक्षणोड्डीनराधा धृतिविभवविहङ्गे न्यस्तनेत्रान्तबाणः । अलकमधुपदत्तद्योतमाध्वीकसत्रः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ९॥ परिमलरुचिपालीशालिगान्धर्विकोद्य- न्मुखकमलमधूलीपानमत्तद्विरेफः । मुकुरजयिकपोले मृग्यताचुम्बबिम्बः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १०॥ मकरमुखसदृक्षस्वर्णवर्णावतंस प्रचलनहृतराधासर्वशारीरधर्मः । तदतिचलदृगन्तस्वस्थवंशे धृताक्षः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ ११॥ हरिमणिकृतशङ्खश्लाघितोल्लङ्घिलेखा त्रयरुचिवृतकण्ठस्योपकण्ठे मणीन्द्रम् । दधदिह परिरब्धुं राधिकां बिम्बितां च स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १२॥ कुवलयकृतवक्षस्तल्पमुच्चं दधानः श्रमविलुलितराधास्वापनायैव नव्यम् । भुजयुगमपि दिव्यं तत्प्रकाण्दोपधानं स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १३॥ रुचिरजठरपत्रे चित्रनाभीतटोद्य- त्तनुरुहततिनाम्नीं बल्लवीवृन्दभुक्त्यै । स्मरनृपतिसमुद्रस्वाक्षरालीं दधानः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १४॥ युवतिहृदलसेभप्रौढबन्धाय काम स्थपितचितरसोरुस्तम्भजृम्भाभिरामः । मरकतकटजैत्रफुल्लजानुप्रसन्नः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १५॥ प्रणयनवमधूनां पानमात्रैकगत्या सकलकरणजीव्यं राधिकामत्तभृङ्ग्याः । अरुणचरणकञ्जद्वन्द्वमुल्लास्य पश्य- न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १६॥ अतुलविलसदङ्गश्रेणिविन्यासभङ्ग्या ग्लपितमदनकोटिस्फारसौन्दर्यकीर्तिः । बललवहतमत्तापारपारीन्द्रदर्पः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १७॥ तरणिदुहितृकच्छे स्वच्छपाथोदधामा समुदितनवकामाभिररामावलीणाम् । तडिदतिरुचिबाहुस्फुर्जदंसोऽतिजृम्भ- न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १८॥ नवतरुणिमभट्टाचार्यवर्येण शास्त्रं मनसिजमुनि क्ल्प्तं न्यायमध्यापिताभिः । नवनवयुवतीभिर्बिभ्रदुद्ग्राहमस्मि- न्स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ १९॥ रतिमतिरचयन्त्या राधिकानर्मकान्त्या स्थगितवचनदर्पः स्फारितान्यप्रसङ्गः । खरमतिललितास्ये किञ्चिदञ्चत्स्मिताक्षः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २०॥ सविधरमितराधः साग्रजस्निग्धरूप प्रणयरुचिरचन्द्रः कुञ्जखेलावितन्द्रः । रचितजनचकोरप्रेमपीयूषवर्षः स्फुरति मदनपूर्वः कोऽपि गोपाल एषः ॥ २१॥ मदनवलितगोपालस्य यः स्तोत्रमेत- त्पठति सुमतिरुद्यद्दैन्यवन्याभिषिक्तः । स खलु विषयरागं सौरिभागं विहाय प्रतिजनि लभते तत्पादकञ्जानुरागम् ॥ २२॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीमदनगोपालस्तोत्रं सम्पूर्णम् ।