श्रीमदनगोपालाष्टकम्
मृदुतलारुण्यजितरुचिरदरदप्रभं
कुलिशकञ्जारिदरकलसझषचिह्नितम् ।
हृदि ममाधाय निजचरणसरसीरुहं
मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ १॥
मुखरमञ्जीरनखशिशिरकिऋणावली
विमलमालाभिरनुपदमुदितकान्तिभिः ।
श्रवणनेत्रश्वसनपथसुखद नाथ हे
मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ २॥
मणिमयोष्णीषदरकुटिलिमणिलोचनो-
च्चलनचातुर्यचितलवणिमणिगण्डयोः ।
कनकताटङ्करुचिमधुरिमणि मज्जयन्
मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ३॥
अधरशोणिम्नि दरहसितसितिमार्चिते
विजितमाणिक्यरदकिरणगणमण्डिते ।
निहितवंशीक जनदुरवगमलील हे
मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ४॥
पदकहारालिपदकटकनटकिङ्किणी
वलय ताटङ्कमुखनिखिलमणिभूषणैः ।
कलितनव्याभ निजतनुरुचिभूषितै-
र्मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ५॥
उडुपकोटीकदनवदनरुचिपल्लवै-
र्मदनकोटीमथननखरकरकन्दलैः ।
द्युतरुकोटीसदनसदयनयनेक्षणै-
र्मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ६॥
कृतनराकारभवमुखविबुधसेवित !
द्युतिसुधासार ! पुरुकरुण ! कमपि क्षितौ ।
प्रकटयन् प्रेमभरमधिकृतसनातनं
मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ७॥
तरणिजातीरभुवि तरणिकरवारक
प्रियकषण्डास्थमणिसदनमहितस्थिते !
ललितया सार्धमनुपदरमित ! राधया
मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ८॥
मदनगोपाल ! तव सरसमिदमष्टकं
पठति यः सायमतिसरलमतिराशु तम् ।
स्वचरणाम्भोजरतिरससरसि मज्जयन्
मदनगोपाल ! निजसदनमनु रक्ष माम् ॥ ९॥
इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीमदनगोपालाष्टकं सम्पूर्णम् ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):