अक्षर आकार:

श्रीलक्ष्मीनृसिंहकरुणारस अथवा करावलम्बस्तोत्रम्

Shankara's LakShmi-Nrisinha Karunarasa or Karavalamba Stotra

श्रीलक्ष्मीनृसिंहकरुणारस अथवा करावलम्बस्तोत्रम्

श्रीमत्पयोनिधिनिकेतनचक्रपाणे भोगीन्द्रभोगमणिराजितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १॥ @१ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि- सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त । लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २॥ @२ संसारघोरगहने चरतो मुरारे मारोग्रभीकरमृगप्रचुरार्दितस्य । var मृगप्रवरर्धितस्य आर्तस्य मत्सरनिदाघसुदुःखितस्य var निधाघनिपीडतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३॥ @४ संसारकूपमतिघोरमगाधमूलं सम्प्राप्य दुःखशतसर्पसमाकुलस्य । दीनस्य देव कृपया पदमागतस्य var शरणागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४॥ @५ संसारसागरविशालकरालकाल- नक्रग्रहग्रसितनिग्रहविग्रहस्य । var ग्रहग्रसन व्यग्रस्य रागनिचयोर्मिनिपीडितस्य var रागलसदूर्नमिनि लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५॥ @३ संसारवृक्षमघबीजमनन्तकर्म- शाखायुतं करणपत्रमनङ्गपुष्पम् । आरुह्य दुःखफलितं चकितं दयालो var दुःखजलधौ पततो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६॥ @९ संसारसर्पविषदिग्धमहोग्रतीव्र- var (घनवक्त्र)(विषदष्ट)भयोग्रतीव्र दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः । var दंष्ट्राकरालविषदग्ध नागारिवाहन सुधाब्धिनिवास शौरे लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७॥ @७ संसारदावदहनाकरभीकरोग्र- var दावदहनातुरभीकरोरु- ज्वालावलीभिरतिदग्धतनूरुहस्य । var अभिदग्ध त्वत्पादपद्मसरसीरुहमागतस्य var सरसीं शरणागतस्य, रुहमस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८॥ @१० संसारजालपतितस्य जगन्निवास सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य । var बडिशश्वझषात्मनश्च प्रोत्कम्पितप्रचुरतालुकमस्तकस्य var प्रोत्तम्बित लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९॥ @८ संसारभीकरकरीन्द्रकराभिघात- निष्पीड्यमानवपुषः सकलार्तिनाश । var कलार्धितस्य प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १०॥ @६ अन्धस्य मे हृतविवेकमहाधनस्य चोरैर्महाबलिभिरिन्द्रियनामधेयैः । मोहान्धकारकुहरे विनिपातितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११॥ लक्ष्मीपते कमलनाभ सुरेश विष्णो वैकुण्ठ कृष्ण मधुसूदन पुष्कराक्ष । (पाठभेद- यज्ञेश यज्ञ मधुसूदन विश्वरूप ।) ब्रह्मण्य केशव जनार्दन वासुदेव देवेश देहि कृपणस्य करावलम्बम् ॥ १२॥ यन्माययार्जितवपुःप्रचुरप्रवाह- मग्नार्थमत्र निवहोरुकरावलम्बम् । लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन स्तोत्रं कृतं सुखकरं भुवि शङ्करेण ॥ १३॥ There are variations of verses and sequence in different texts. The additional verses are given below. संसारसागरनिमज्जनमुह्यमानं दीनं विलोकय विभो करुणानिधे माम् । प्रह्लादखेदपरिहारपरावतार लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४॥ @११ बद्ध्वा गले यमभटा बहु तर्जयन्तः var भद्वाकशैर्यनुभटाबहुभर्तृयन्ति कर्षन्ति यत्र भवपाशशतैर्युतं माम् । var कर्षन्ति यत्र पथि पाशशतैर्यथा माम् एकाकिनं परवशं चकितं दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५॥ एकेन चक्रमपरेण करेण शङ्ख- मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् । वामेतरेण वरदाभयपद्मचिह्नं var वरदाभयहस्तमुद्रां लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६॥ प्रह्लादनारदपराशरपुण्डरीक- व्यासादिभागवतपुङ्गवहृन्निवास । var व्यासाम्बरीष शुकशौनक हृन्निवास भक्तानुरुक्तपरिपालनपारिजात लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १७॥ संसारयूथ गजसंहतिसिंहदंष्ट्रा भीतस्य दुष्टमैदैत्य भयङ्करेण । प्राणप्रयाण भवभीति निवारणेन लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १८॥ लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन स्तोत्रं कृतं शुभकरं भुवि शङ्करेण । ये तत्पठन्ति मनुजा हरिभक्तियुक्ता- स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १९॥ आद्यन्तशून्यमजमव्ययमप्रमेय- मादित्यरुद्रनिगमादिनुतप्रभावम् । त्वाम्भोधिजास्य मधुलोलुपमत्तभृङ्गीं लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २०॥ वाराह-राम-नरसिंह-रमादिकान्ता क्रीडाविलोलविधिशूलिसूरप्रवन्द्य! । हंसात्मकं परमहंस विहारलीलं लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २१॥ स्वामी नृसिंहः सकलं नृसिंहः माता नृसिंहश्च पिता नृसिंहः । भ्राता नृसिंहश्च सखा नृसिंहः लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २२॥ प्रह्लादमानससरोजवासभृङ्ग! गङ्गातरङ्गधवळाङ्ग रमास्थिताङ्क! । श‍ृङ्गार सुन्दरकिरीटलसद्वराङ्ग लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २३॥ श्री शङ्करार्य रचितं सततं मनुष्यः स्तोत्रं पठेदिह तु सर्वगुणप्रपन्नम् । सद्योविमुक्तकलुषो मुनिवर्यगण्यो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २४॥ श्रीमन् नृसिंह विभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय । तृष्णादिवृश्चिक-जलाग्नि-भुजङ्ग-रोग क्लेशव्ययाम हरये गुरवे नमस्ते ॥ २५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ लक्ष्मीनृसिंहकरुणारसस्तोत्रं अथवा लक्ष्मीनृसिंहकरावलम्बस्तोत्रम् सम्पूर्णम् ॥ The 25 verses are referred in stotra presented in Appendix 1 of shodhagangA thesis A Study of Narasimha Cult in Sanskrit Literature at http://shodhganga.inflibnet.ac.in/handle/10603/109961 The verse numbers are extended from the earlier edition linked in the information file.