अक्षर आकार:

श्रीलक्ष्मीनृसिंहपञ्चरत्नम्

shrILaxmI-Nrisinha PancharatnaStotra

श्रीलक्ष्मीनृसिंहपञ्चरत्नम्

त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ १॥ शुक्त्तौ रजतप्रतिभा जाता कतकाद्यर्थसमर्था चे- द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ २॥ आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेस्मिन् । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३॥ स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे गन्धफलीसदृशा ननु तेमी भोगानन्तरदुःखकृतः स्युः । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ४॥ तव हितमेकं वचनं वक्ष्ये श‍ृणु सुखकामो यदि सततं स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति। चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री गोविन्द भगवत्पूज्यपाद शिष्यस्य श्रीमच्छंकर भगवतः कृतौ लक्ष्मीनृसिंह पञ्चरत्नम् सम्पूर्णम् ॥