अक्षर आकार:

श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रम्

Shri Lakshmivenkateshvara Bhujanga Stotram

श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रम्

भुजङ्गाचलाग्रस्थहेमालयान्त- स्थलन्नीलरत्नत्रिशाविद्ग्रहेण । मुहुर्भासयन्तं सुखान्तं महान्तं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ १॥ स्फुरद्रत्नभास्वत्किरीटाभिरामं ललाटस्थकर्पूरचूर्णोर्ध्वपुण्ड्रम् । मनाङ्मन्दहासाधरोष्ठास्यपद्मं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ २॥ कृपापूर्णसौम्येक्षणाब्जावलोकैः नतानेकभूतौहरक्षैकदीक्षम् । मणिस्थोमकान्तिच्छटाकर्णपूरं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ३॥ कराग्रोल्लसच्छङ्खचक्रायुधाढ्यं रमावासरम्यायतूरः प्रदेशम् । लसत्पीतवासः प्रभारञ्जिताङ्गं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ४॥ अनर्घस्फुरद्रत्नभूषाविशेषैः अनेकैस्सदालङ्कृतं मङ्गलाङ्गम् । सुगन्धिप्रसूनावलि स्रक्सुरम्यं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ५॥ पदाब्जं श्रयध्वं ममेत्यादरेण ब्रुवाणं स्वभक्तान् करन्यासभङ्ग्या । जगज्जन्मरक्षा क्षयादिस्वलीलं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ६॥ भवाब्धिर्भवेद्यानुदद्यं श्रितानां नितिव्याहरन्तं करेणापरेणा । धृतार्चावतारं परम्ब्रह्मनित्यं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ७॥ पदाब्जाश्रितानेकदेवाधिपानां किरीटस्थरत्नप्रभाभासिताङ्घ्रिम् । त्रिलोकैकनाथं त्रयीमौलिवेद्यं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ८॥ धनं भक्तलोकैरनेकैर्गृहीत्वा तदीयां समस्तां विपत्तिं निवार्य । अभीष्टानि दत्वा सर्वानवन्तं भजे वेङ्कटेशं श्रये श्रीनिवासम् ॥ ९॥ नमः श्रीनिवासाय सर्वान्तरात्मं नमस्तेऽस्तु पद्मावतीवल्लभाय । नमो वेङ्कटाद्रिस्फुरत्कालमेघ प्रपन्नार्तबन्धो नमस्तेऽस्तु नित्यम् ॥ १०॥ इति श्रीजग्गुरु सिंगरय्यङ्गरविरचितं श्रीलक्ष्मीवेङ्कटेश्वरभुजङ्गस्तोत्रं सम्पूर्णम् ।