अक्षर आकार:

श्रीलक्ष्मीनृसिंहहृदयस्तोत्रम्

Shri Lakshmi Nrisimha Hridaya Stotra

श्रीलक्ष्मीनृसिंहहृदयस्तोत्रम्

अस्य श्रीलक्ष्मीनृसिंहहृदय महामन्त्रस्य प्रह्लाद ऋषिः । श्रीलक्ष्मीनृसिंहो देवता । अनुष्टुप्छन्दः । मम ईप्सितार्थसिद्ध्यर्थे पाठे विनियोगः ॥ करन्यासः - ॐ श्रीलक्ष्मीनृसिंहाय अङ्गुष्ठाभ्यां नमः । ॐ वज्रनखाय तर्जनीभ्यां नमः । ॐ महारूपाय मध्यमाभ्यां नमः । ॐ सर्वतोमुखाय अनामिकाभ्यां नमः । ॐ भीषणाय कनिष्ठिकाभ्यां नमः । ॐ वीराय करतलकरपृष्ठाभ्यां नमः । हृदयन्यासः - ॐ श्रीलक्ष्मीनृसिंहाय हृदयाय नमः । ॐ वज्रनखाय शिरसे स्वाहा । ॐ महारूपाय शिखायै वषट् । ॐ सर्वतोमुखाय कवचाय हुं । ॐ भीषणाय नेत्रत्रयाय वौषट् । ॐ वीराय अस्त्राय फट् ॥ अथ ध्यानम् - ॐ सत्यं ज्ञानेन्द्रियसुखं क्षीराम्भोनिधि मध्यगं योगारूढं प्रसन्नास्यं नानाभरणभूषितम् । महाचक्रं महाविष्णुं त्रिनेत्रं च पिनाकिनं श्वेताहिवासं श्वेताङ्गं सूर्यचन्द्रादि पार्श्वगम् ॥ श्रीनृसिंहं सदा ध्यायेत् कोटिसूर्यसमप्रभम् ॥ अथ मन्त्रः - ॐ नमो भगवते नरसिंहाय देवाय नमः ॥ अथ हृदयस्तोत्रम् । श्रीनृसिंहः परम्ब्रह्म श्रीनृसिंहः पर शिवः । नृसिंहः परमो विष्णुः नृसिंहः सर्वदेवता ॥ १॥ नृशब्देनोच्यते जीवः सिंहशब्देन च स्वरः । तयोरैक्यं श‍ृतिप्रोक्तं यः पश्यति स पश्यति ॥ २॥ नृसिंहदेव जायन्ते लोकाः स्थावरजङ्गमाः । नृसिंहेनैव जीवन्ति नृसिंहे प्रविशन्ति च ॥ ३॥ नृसिंहो विश्वमुत्पाद्य प्रविश्य तदनन्तरम् । राजभिक्षुस्वरूपेण नृसिंहस्य स्मरन्ति ये ॥ ४॥ नृसिंहात् परमं नास्ति नृसिंहं कुलदैवतम् । नृसिंहभक्ता ये लोके ते ज्ञानिनमितीरिताः ॥ ५॥ विरक्ता दयया युक्ताः सर्वभूतसमेक्षणाः । न्यस्त संसार योगेन नृसिंहं प्राप्नुवन्ति ते ॥ ६॥ माहात्म्यं यस्य सर्वे अपि वदन्ति निगमागमाः । नृसिंहः सर्वजगतां कर्ता भोक्ता न चापरः ॥ ७॥ नृसिंहो जगतां हेतुः बहिर्याया अवलम्बनः । मायया वेदितात्मा च सुदर्शनसमाक्षरः ॥ ८॥ वासुदेवो मयातीतो नारायणसमप्रभ । निर्मलो निरहङ्कारो निर्माल्यो यो निरञ्जनः ॥ ९॥ सर्वेशां चापि भूतानां हृदयाम्भोजवासकः । अतिश्रेष्ठः सदानन्दो निर्विकारो महामतिः ॥ १०॥ चराचरस्वरूपी च चराचरनियामकः । सर्वेश्वरः सर्वकर्ता सर्वात्मा सर्वगोचरः ॥ ११॥ नृसिंह एव यः साक्षात् प्रत्यगात्मा न संशयः । केचिन्मूढा वदन्त्येवमवतारमनीश्वरम् ॥ १२॥ नृसिंह परमात्मानं सर्वभूतनिवासिनम् । तस्य दर्शनमात्रेण सूर्यस्यालोकवद्भवेत् ॥ १३॥ सर्वं नृसिंह एवेति सङ्ग्रहात्मा सुदुर्लभः । नारसिंहः परं दैवं नारसिंहो जगद्गुरुः ॥ १४॥ नृसिंहेति नृसिंहेति प्रभाते ये पठन्ति च । तेषां प्रसन्नो भगवान् मोक्षं सम्यक् प्रयच्छति ॥ १५॥ ॐकारेभ्यश्च पूतात्मा ॐकारैक प्रबोधितः । ॐकारो मन्त्रराजश्च लोके मोक्षप्रदायकः ॥ १६॥ नृसिंहभक्ता ये लोके निर्भया निर्विकारकाः । तेशां दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥ १७॥ सकारो जीववाची स्यादिकारः परमेश्वरः । हकाराकारयोरैक्यं महावाक्यं ततो भवेत् ॥ १८॥ ॐकारजा प्रेतमुक्तिः काश्यां मरणं तथा । नृसिंह स्मरणादेव मुक्तिर्भवति नान्यथा ॥ १९॥ तस्मात्सर्वप्रयत्नेन मन्त्रराजमिति ध्रुवम् । सर्वेषां चापि वेदानां देवतानां तथैव च ॥ २०॥ सर्वेषां चापि शास्त्राणां तात्पर्यं नृहरौ हरौ । श्रीरामतापनीयस्य गोपालस्यापि तापिनः ॥ २१॥ नृसिंहतापनीयस्य कलां नार्हति शोडशीम् । श्रीमन् मन्त्रमहाराज नृसिंहस्य प्रसादतः ॥ २२॥ श्रीनृसिंहो नमस्तुभ्यं श्रीनृसिंहः प्रसीद मे । नृसिंहो भगवान्माता श्रीनृसिंहः पिता मम ॥ २३॥ नृसिंहो मम पुत्रश्च नरकात्त्रायते यतः । सर्वदेवात्मको यश्च नृसिंहः परिकीर्तितः ॥ २४॥ अश्वमेधसहस्राणि वा जपेय शतानि च । काशी रामेश्वरादीनि फलान्यपि निशम्य च ॥ २५॥ यावत्फलं समाप्नोति तावदाप्नोति मन्त्रतः । शण्णवत्यश्च करणी यावती तृप्तिरिष्यते ॥ २६॥ पितॄणां तावती प्रीतिः मन्त्रराजस्य जायते । अपुत्रस्य गतिर्नास्ति इति स्मृत्या यदीरितम् ॥ २७॥ तत्तु लक्ष्मीनृसिंहस्य भक्तिमात्रावगोचरम् । सर्वाणि तर्कमीमांसा शास्त्राणि परिहाय वै ॥ २८॥ नृसिंह स्मरणाल्लोके तारकं भवतारकम् । अपार भववाराब्धौ सततं पततां नृणाम् ॥ २९॥ नृसिंह मन्त्रराजोऽयं नाविको भाष्यते बुधैः । यमपाशेन बद्धानां पङ्गुं वै तिष्ठतां नृणाम् ॥ ३०॥ नृसिंह मन्त्रराजोऽयं ऋषयः परिकीर्तितः । भवसर्पेण दंष्ट्राणां विवेकगत चेतसाम् ॥ ३१॥ नृसिंह मन्त्रराजोऽयं गारुडोमन्त्र उच्यते । अज्ञानतमसां नृणामन्धवद्भ्रान्तचक्षुषाम् ॥ ३२॥ नृसिंहमन्त्रराजोऽयं प्रयासं परिकीर्तितः । तापत्रयाग्नि दग्धानां छाया संश्रयमिच्छताम् ॥ ३३॥ नृसिंहमन्त्रराजश्च भक्तमानसपञ्जरम् । नृसिंहो भास्करो भूत्वा प्रकाशयति मन्दिरम् ॥ ३४॥ वेदान्तवन मध्यस्था हरिणी मृग इष्यते । नृसिंह नीलमेघस्य सन्दर्शन विशेषतः ॥ ३५॥ मयूरा भक्तिमन्तश्च नृत्यन्ति प्रीतिपूर्वकम् । अन्यत्र निर्गता वाला मातरं परिलोकय ॥ ३६॥ यथा यथा हि तुष्यन्ते नृसिंहस्यावलोकनात् । श्रीमन् नृसिंह पादाब्जं नत्वारङ्ग प्रवेशिता ॥ ३७॥ मदीय बुद्धिवनिता नटी नृत्यति सुन्दरी । श्रीमन् नृसिंह पादाब्ज मधुपीत्वा मदोन्मदः ॥ ३८॥ मदीया बुद्धिमालोक्य मूढा निन्दन्ति माधवम् । श्रीमन् नृसिंहपादाब्जरेणुं विधिसुभक्षणम् ॥ ४०॥ मदीयचित्तहंसोऽयं मनोवश्यं न याति मे । श्रीनृसिंहः पिता मह्यं माता च नरकेसरी ॥ ४१॥ वर्तते ताभुवौ नित्यं रौवहं परियामि वै । सत्यं सत्यं पुनः सत्यं नृसिंहः शरणं मम ॥ ४२॥ अहोभाग्यं अहोभाग्यं नारसिंहो गतिर्मम । श्रीमन् नृसिंह पादाब्ज द्वन्द्वं मे हृदये सदा ॥ ४३॥ वर्ततां वर्ततां नित्यं दृढभक्तिं प्रयच्छ मे । नृसिंह तुष्टो भक्तोऽयं भुक्तिं मुक्तिं प्रयच्छति ॥ ४४॥ नृसिंहहृदयं यस्तु पठेन्नित्यं समाहितः । नृसिंहत्वं समाप्नोति नृसिंहः संप्रसीदति ॥ ४५॥ त्रिसन्ध्यं यः पठेन्नित्यं मन्दवारे विषेशतः । राजद्वारे सभास्थाने सर्वत्र विजयी भवेत् ॥ ४६॥ यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । इह लोके शुभान् कामान् परत्र च पराङ्गितम् ॥ ४७॥ ॥ इति भविष्योत्तरपुराणे प्रह्लादकथितं श्रीलक्ष्मीनृसिंहहृदयस्तोत्रं सम्पूर्णम् ॥