अक्षर आकार:

श्रीलक्ष्मीनृसिंहसुप्रभातम्

Shri Lakshminrisimha Suprabhatam

श्रीलक्ष्मीनृसिंहसुप्रभातम्

श्रीलक्ष्मीनृसिंहगायत्री । वज्रनखाय विद्महे तीक्ष्णद्रंष्टाय धीमहि तन्नो नारसिंह प्रचोदयात् ॥ श्रीनृसिंहमन्त्रम् । उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ अथ श्रीलक्ष्मीनृसिंहसुप्रभातम् । कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ श्रीमान् रामानुजार्यो यतिपतिरखिलां स्त्रातुकामस्स्वशिष्यान् भाष्यं शारीरकार्थप्रकटनमकरोद्बाह्यसिद्धान्तभेत्ता । यस्तस्मिन् क्षुभ्यमाणे कथककुलवचो वज्रपातैस्स भूयः साक्षादुत्प्रेक्ष्यमाणो भवदिति जयतात् श्रीनिवसो यतीन्द्रः ॥ १॥ तव सुप्रभातमरुणाब्जलोचने तरुणेन्दुबिम्बवदनेऽघमोचने । शरणागतार्तिहरणाय दीक्षीते करुणारसौघवरुणालयेक्षिते ॥ २॥ तव सुप्रभातममरेन्द्रसुन्दरि करपल्लवात्तकलतोरुमालिनि । क्षणरुक्सहस्रतुलिताङ्गसौभगे कनकाञ्चितोरुमणिकुण्डलाञ्छिते ॥ ३॥ तव सुप्रभातमसुरारिवल्लभे निजवल्लभाङ्कसरसासरोरुहे । करपल्लवात्तजलजातकुड्मले रविकोटिभासि कुरुविन्दमौलिके ॥ ४॥ तव सुप्रभातमखिलार्तिभञ्जनि प्रणतार्तभक्तजनचित्तरञ्जनि । वरतापनीयविदितात्मवैभव- प्रियवक्त्रचन्द्रसुचकोरलोचने ॥ ५॥ देवाश्चतुर्मुखपुरन्दरशङ्कराद्या- स्सिद्धास्सनातनसनन्दननारदाद्याः । त्वामर्चितुं विविधपुष्पकराश्चरन्ति लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ६॥ देवो दिवाकर इह प्रथितप्रकाशो दिव्यैः करैस्त्वदनघाङ्घ्रियुगं सहस्रैः । संवाहितुं भृशमुदेति हरेर्दिशायां लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ७॥ वेदाश्च सामयजुरादय आविभान्ति शब्दैरलक्षितगुणैस्स्वगुणं स्तुवन्तः । त्वल्लिङ्गनामगुणकीर्तनलब्धभावाः लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ८॥ विप्रास्स्वनुष्ठितगरिष्ठगुणक्रियाद्याः स्नाता विशुद्धमनसो विमलैर्वचोभिः । त्वां स्तोतुमद्य विविधैः प्रणताश्चरन्ति लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ ९॥ उच्चैश्श्रवस्तुलित एष विभाति तेऽश्वः स्तम्बेरमामदजलाप्लुतगण्डदेशाः । भृत्याश्च ते करयुगोद्धृतचामराद्याः लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ १०॥ धेनुः पुरन्दरपुरान्तरभूषणं सा त्वत्किङ्करत्वकरणाय धरामवाप्य । त्वद्दृष्टिभावितसुधामसुधासुधारां आकाङ्क्षते नरहरे तव सुप्रभातम् ॥ ११॥ भृत्योऽहमद्य यतिरूपमुपेयिवांस्ते पादाम्बुजद्वयपरीचरणाय यत्तः । जागर्मि विश्वगुणनिर्मितनर्मशील लक्ष्मीनृकेसरिविभो तव सुप्रभातम् ॥ १२॥ वाराशिराजतनयानयानाम्बुजात- माध्वीरसज्ञनयनाख्यमिलिन्दयुग्मम् । सञ्चारयाद्य विनतेषु तदीयभक्ति- सारग्रहाय नृहरे तव सुप्रभातम् ॥ १३॥ सह्यापगोत्तरतरङ्गविभङ्गसङ्ग- तुङ्गाङ्गशीतिममरुज्जडिमोत्तरङ्गे । रङ्गे विहाय रुचिमत्र विराजसे त्वं श्रीरङ्गनायकविभो तव सुप्रभातम् ॥ १४॥ नारायणाद्रिविसरद्विपुलस्रवन्ती निष्क्रान्तनिर्झरझलञ्झलगाढशब्दैः । अस्पृष्टमानस इवात्र विहारकाङ्क्षी त्वं भासी वेङ्कटपते तव सुप्रभातम् ॥ १५॥ गोपीगृहान्तरुपकल्पितमन्थनात्त- हय्यङ्गवीनहृतिकल्पितनृत्तजातम् । अद्यापि तथ्यमिह कर्तुमिवासि तादृग्- रूपो यदूत्तमविभो तव सुप्रभातम् ॥ १६॥ इत्थं रमानृहरिरङ्गधुरीणशेष- शेलैश यादवकुलाधिप सुप्रभातम् । भक्त्या परं व्यतनुताखिलसाधुभाव्यं श्रीश्रीनिवासनिगमान्तयतिर्विशुद्धः ॥ १७॥ इति श्रीलक्ष्मीनृसिंहसुप्रभातं सम्पूर्णम् ।