अक्षर आकार:

श्रीलक्ष्मीनृसिंहप्रपत्तिः

shrIlakShmInRRisiMhaprapattiH

श्रीलक्ष्मीनृसिंहप्रपत्तिः

श्री श्रीनिवासाह्वययोगिवर्यं नारायणं योगिवरं तथैव । श्रीयोगिवर्यं रघुवीरवेदकोटीरसंज्ञं गुरुमाश्रयामि ॥ १॥ अहोबिले गारुडशैलमध्ये कृपावशात्कल्पितसन्निधानम् । लक्ष्म्या समालिङ्गितवामभागं लक्ष्मीनृसिंह शरणं प्रपद्ये ॥ २॥ श्रीमच्छठारातियतीन्द्रमाद्यं प्रेम्णा स्वयम्प्रेषमनुप्रदाय । स्वाराधने प्रेरयति स्म यस्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ३॥ सर्वस्य लोकस्य समीहितानां प्रदानदीक्षावशतः सदैव । श्रिया समेतं श्रितदोषहन्त्र्या लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ४॥ यस्याभवद्भक्तजनार्तिहन्तुः पितृत्वमन्वेष्वविचार्य तूर्णम् । स्तम्भेऽवतारस्तमनन्यलभ्यं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ५॥ यमीक्षितुं देवगणोऽतिरुष्टं शत्रौ न शक्नोति चतुर्मुखादिः । प्रसादितो भक्तजनेन यस्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ६॥ वामत्वमद्य त्यज संश्रितेषु नास्तीह कश्चित्किल नापराधी । लक्ष्म्येति वामाङ्कगयोच्यमानं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ७॥ श्रीवीरवद्राघववेदमौलिं योगीन्द्रक्लृप्तैश्शुभतापपुण्ड्रैः । नामादिभिर्मां युतमातनोद्यस्तं श्रीनृसिंहं शरणं प्रपद्ये ॥ ८॥ श्रीमद्रहस्यत्रयसारपाठप्रारम्भकाले तव सर्वसिद्धिः । स्यादित्युपश्रुत्यभिधायकं मे लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ९॥ भास्यप्रदानावसरे तु वीररघूद्वहाम्नायशिखार्यरूपी । स्वप्नागतो भाष्यमदत्त यो मे लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ १०॥ यः श्रीनिवासाख्यमुनीन्द्रतो मां सम्प्राप्तवेदान्तयुगं व्यतानीत् । तदर्पितं स्वीकृतमद्भरं तं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ ११॥ स्वप्ने रमावासमुनीन्द्ररूपी स्वयं समागत्य ममापि देवः । त्रिदण्डकाषायमदान्मुदा यस्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ १२॥ आराधनं स्वस्य कथं मयेति भीतं सदा पद्मलतामुखेन । आश्वास्य मामप्यकरोत्कृतार्थं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ १३॥ शठारिनारायणयोगिवर्यपराङ्कुशस्वामि पराङ्कुशाद्यैः । यः पूजितः श्रीनिधियोगिमुख्यैर्लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ १४॥ नारायणश्रीरघुवीरवेदकोटीरनारायणरमानिवासैः । योगीश्वरैरन्वहमर्चितो यस्तं लक्ष्मीनृसिंहं शरणं प्रपद्ये ॥ १५॥ त्वद्दत्तवाचा तव किङ्करेण त्वत्प्रीतिकामेन मया कृतेन । स्तोत्रेण लक्ष्मीनृहरेः स विष्णुः प्रीतो भव त्वं करुणार्द्रदृष्टिः ॥ १६॥ पराङ्कुशाख्येन तपोधनेन लक्ष्मीनृसिंहस्य कृता प्रपत्तिः । पापठ्यते येन भवेत्स तस्य पूर्णं कृपापूर्णकटाक्षपात्रम् ॥ १७॥ इति श्रीलक्ष्मीनृसिंहप्रपत्तिःसमाप्ता ॥