अक्षर आकार:

श्रीलक्ष्मीनृसिंह मङ्ग्लाशासनम्

Shri Lakshminrisimha Manglashasanam

श्रीलक्ष्मीनृसिंह मङ्ग्लाशासनम्

श्रीपराङ्कुशयोगीन्द्रशठारिप्रमुखान् गुरून् । मङ्गलाशासनपरान् महिताननिशं भजे ॥ १॥ जगज्जन्मादिलीलाय जगदानन्दहेतवे । जगच्चक्षुर्निवासाय श्रीनृसिंहाय मङ्गलम् ॥ २॥ हिरण्यस्तम्भसम्भूतिप्रख्यातपरमात्मने । प्रह्लादार्तिमुषे ज्वालानरसिंहाय मङ्गलम् ॥ ३॥ गरुडाद्रिगुहागेहे गजकुण्डसरस्तटे । हिरण्यस्थाण्वहङ्कारहारिसिंहाय मङ्गलम् ॥ ४॥ वारिजावारितभयैर्वाणीपतिमुखैस्सुरैः । महिताय महोदारमालोलायास्तुमङ्गलम् ॥ ५॥ वराहकुण्डे मेदिन्यै पाराहर्थप्रदायिने । दन्तलग्नहिरण्याक्षदंष्ट्रसिंहाय मङ्गलम् ॥ ६॥ गोभूहिरण्यनिर्विण्णगोखिलज्ञानदायिने । प्रभञ्जन शुनासीर कारञ्जायास्तु मङ्गलम् ॥ ७॥ भार्गवाख्यतपस्वीशभावनाभावितात्मने । अक्षय्यतीर्थतीरस्थभार्गवायास्तु मङ्गलम् ॥ ८॥ चतुराननचेतोऽब्जचित्रभानुस्वरूपिणे । वेदाद्रिगह्वरस्थाय योगानन्दाय मङ्गलम् ॥ ९॥ हाहाहुह्वाख्यगन्धर्वनृत्तगीतहृतात्मने । भवहन्तृतटच्छत्रवटसिंहाय मङ्गलम् ॥ १०॥ भारद्वाजमहायोगिमहापातकहारिणे । तापनीयरहस्यार्थपावनायास्तु मङ्गलम् ॥ ११॥ श्रीशठारियतीन्द्रादियोगिहृत्पद्मभानवे । सर्वत्र परिपूर्णायाहोबिलेशाय मङ्गलम् ॥ १२॥ मङ्गलाशासनमिदं मानिवासमुनीरितम् । महनीयं पठन् श‍ृण्वन् मङ्गलायतसम्भवेत् ॥ १३॥ इति श्रीलक्ष्मीनृसिंह मङ्ग्लाशासनं सम्पूर्णम् ।