अक्षर आकार:

श्रीलक्ष्मीनृसिंहमङ्गलम्

Shri Lakshminrisimha Mangalam

श्रीलक्ष्मीनृसिंहमङ्गलम्

अपारकरुणासिन्धो निवारणपरानिमान् । विदारय हिरण्याक्षविदारण नखाय धैः ॥ १॥ सर्ववेदान्तवेद्याय कारणाय महात्मने । सर्वलोकशरण्याय श्रीनृसिंहाय मङ्गलम् ॥ २॥ शेषिणे सर्ववस्तूनां वाञ्छितार्थप्रदायिने । संश्रितानां सदा भूयात् श्रीनृसिंहाय मङ्गलम् ॥ ३॥ पवित्राणां पवित्राय प्रापकाय फलात्मने । भद्राणामपि भद्राय श्रीनृसिंहाय मङ्गलम् ॥ ४॥ आदिवण् शठकोपाख्यैर्मुनिवर्यैर्महात्मभिः । समर्चिताय नित्याय श्रीनृसिंहाय मङ्गलम् ॥ ५॥ जगज्जन्मादिलक्ष्याय स्वेच्छास्वीकृतमूर्तये । विध्वस्ताखिलहेयाय श्रीनृसिंहाय मङ्गलम् ॥ ६॥ ज्ञानानन्दस्वरूपाय ज्ञानशक्त्यादिसिन्धवे । बन्धवे सर्वलोकानां श्रीनृसिंहाय मङ्गलम् ॥ ७॥ कायाधवरित्राणभावितस्थम्भजन्मने । ब्रह्मेन्द्रादिस्तुताय स्यात् श्रीनृसिंहाय मङ्गलम् ॥ ८॥ गुणलेशविहीनस्य सर्वहेयास्पदस्य मे । मन्तून् क्षन्त्रेऽप्यनन्तान् स्यात् श्रीनृसिंहाय मङ्गलम् ॥९॥ श्रीनिवासयतीन्द्रोक्तं लक्ष्मीनृहरिमङ्गलम् । ये पठन्ति महात्मानस्तेषां भूयात्तु मङ्गलम् ॥ १०॥ इति श्रीलक्ष्मीनृसिंहमङ्गलं सम्पूर्णम् ।