अक्षर आकार:

श्रीलक्ष्मीनृसिंहाष्टोत्तरशतनामस्तोत्रम्

Shri Lakshminrisimha Ashtottarashatanama Stotram

श्रीलक्ष्मीनृसिंहाष्टोत्तरशतनामस्तोत्रम्

अस्य श्रीलक्ष्मीनृसिंहाष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य श्रीनारायण ऋषिः । श्रीनृसिंहो देवता । अनुष्टुप् छन्दः । श्रीनृसिंहप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ श्रीनृसिंहः पुष्कराक्षः करालविकृताननः । हिरण्यकशिपोर्वक्षोविदारणनखाङ्कुशः ॥ १॥ प्रल्हादवरदः श्रीमानप्रमेयपराक्रमः । अभक्तजनसंहारी भक्तानामभयप्रदः ॥ २॥ ज्वालामुखस्तीक्ष्णकेशस्तीक्ष्णदंष्ट्रो भयङ्करः ॥ उत्तप्तहेमसङ्काशसटा धूतबलाहकः ॥ ३॥ त्रिनेत्रकपिलः प्रांशु सोमसूर्याग्निलोचनः । स्थूलग्रीवः प्रसन्नात्मा जाम्बूनदपरिधृतः ॥ ४॥ व्योमकेशः प्रभृतिभिस्त्रिदिवेशैरभिष्टुतः । उपसंहृतसप्तार्चिः कवलीकृतमारुतः ॥ ५॥ दिग्गजावलिदर्पघ्नः कद्रूजविषनाशनः । अभिचारः क्रियाहन्ता ब्रह्मण्यो भक्तवत्सलः ॥ ६॥ समुद्रसलिलत्राता हलाहलविशीर्णकृत् । ओजः प्रपूरिताशेषचलाचलजगत्त्रयः ॥ ७॥ हृषीकेशो जगत्त्राणः सर्वगः सर्वकामदः । नास्तिकप्रत्ययार्थाय दर्शितात्मा प्रभाववान् ॥ ८॥ हिरण्यकशिपोरग्रे सभास्तम्भसमुद्भवः । उग्रोग्निज्वालमाली च सुतीक्ष्णो भीमदर्शनः ॥ ९॥ दग्धाखिलजगज्जंन्तुकारणं जगतामपि । आधारः सर्वभूतानां ईश्वरः सर्वहाटकः ॥ १०॥ विष्णुर्जिष्णुर्जगत्धामबहिरन्तः प्रकाशकः । योगिहृत्पद्ममध्यस्थो योगो योगविदुत्तमः ॥ ११॥ स्त्रष्टा हर्ता जगत्त्राता व्योमरूपी जनार्दनः । चिन्मयः प्रकृतिः साक्षी गुणातीतो गुणाश्रयः ॥ १२॥ मखविच्छेदकृत्कर्ता सर्वपाशविनिस्मृतः । व्यक्ताव्यक्तःस्वरूपो यः सूक्ष्मसदसदात्मकः ॥ १३॥ अव्ययः शाश्वतोऽनन्तो वीरजित्परमेश्वरः । मायावी मरूदाधारो निमिषोऽक्षर एव च ॥ १४॥ अनादिनिधनो नित्यःपरब्रह्माभिधायकः । शङ्खचक्रगदाशार्ङ्ग प्रकाशितचतुर्भुजः ॥ १५॥ पीताम्बरधरः स्रग्वी कौस्तुभाभरणोज्वलः । श्रियाद्यासितवामाङ्गश्रीवत्सेन विराजितः ॥ १६॥ प्रसन्नवदनः शान्तो लक्ष्मीप्रियपरिग्रहः । वासुदेवो महादेवो वाक्यपुष्पप्रपूजितः ॥ १७॥ उद्युक्ताहवहुङ्कारभीषिताखिलदिङ्मुखः । गर्जन्वीरासमासीनः कठोरकुटिलेक्षणः ॥ १८॥ दैत्येयः क्षतवक्षोसृग् आर्द्रीकृतनखायुधः । अशेषप्राणिभयदः प्रचण्डो दण्डताण्डवः ॥ १९॥ निटिलसृतघर्माम्बुसम्भूतज्वलिताननः । वज्रसिंहो महमूर्तिर्भीमो भीमपराक्रमः ॥ २०॥ स्वभक्तार्पितकारुण्यो बहूक्तो बहुरूपधृक् । एवं अष्टोत्तरशतं नाम्ना नरसिंहरूपिणः ॥ २१॥ नरकेसरिणा दत्तं स्वप्ने शेषाय धीमते । आयुरारोग्यसम्पत्तिः पुत्रपौत्रप्रवर्धन ॥ २२॥ इति श्रीब्रम्हाण्डपुराणे श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।