अक्षर आकार:

लक्ष्मीनारायणस्तोत्रम्

lakShmInArAyaNastotram

लक्ष्मीनारायणस्तोत्रम्

ध्यानम् । चक्रं विद्यावरघटगदादर्पणं पद्मयुग्मं दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् । गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्योः एकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ १॥ शङ्खचक्रगदापद्मकुम्भादर्शाब्जपुस्तकम् । बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥ २॥ विद्युत्प्रभाश्लिष्टघनोपमानौ शुद्धाशये बिम्बितसुप्रकाशौ । चित्ते चिदाभौ कलयामि लक्ष्मी- नारायणौ सत्त्वगुणप्रधानौ ॥ ३॥ स्तोत्रम् । लोकोद्भवस्थे मलयेश्वराभ्यां शोकोरुदीनस्थितिनाशकाभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ४॥ सम्पत्सुखानन्दविधायकाभ्यां भक्तावनानारतदीक्षिताभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ५॥ दृष्ट्वोपकारे गुरुतां च पञ्च- विंशावतारान् सरसं दधद्भ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ६॥ क्षीराम्बुराश्यादि विराट्भवाभ्यां नारं सदा पालयितुं पराभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ७॥ दारिद्र्यदुःखस्थितिदारकाभ्यां दययैव दूरीकृतदुर्गतिभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ८॥ भक्तव्रजाघौघविदारकाभ्यां स्वीयाशयोद्धूतरजस्तमोभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ९॥ रक्तोत्पलाभाभवपुर्धराभ्यां पद्मारिशङ्खाब्जगदाधराभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ १०॥ अङ्घ्रिद्वयाभ्यर्चककल्पकाभ्यां मोक्षप्रदप्राक्तनदम्पतीभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥ ११॥ इदं तु यः पठेत् स्तोत्रं लक्ष्मीनारायणाष्टकम् । ऐहिकामुष्मिकसुखं भुक्त्वा स लभतेऽमृतम् १२॥ इति श्रीकृष्णकृतं लक्ष्मीनारायणाष्टकस्तोत्रं समाप्तम् ॥