अक्षर आकार:

श्रीलक्ष्मीनारायणभुजङ्गप्रयातस्तोत्रम्

Shri Lakshminarayana Bhujangaprayata Stotram

श्रीलक्ष्मीनारायणभुजङ्गप्रयातस्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ नारयाणाय विद्महे । फणितल्पाय धीमहि । तन्नः श्रीपः प्रचोदयात् ॥ ध्यानं - लक्ष्मीनारायणं विष्णुं क्षीरसागरशायिनम् । भुजङ्गराजराजं तं श्रीहरिं प्रणमाम्यहम् ॥ सुदुग्धार्णवोरङ्गशय्यातिरम्यं सहस्राननाशुभ्रभोगीन्द्रतल्पम् । सुहासातिनीलप्रकाशाननाभं सलक्ष्मीकनारायणं तं नमामि ॥ १॥ सुपीताम्बराभाससौवर्णकान्तिं सुपीताभसौवर्णलक्ष्मीधृताङ्घ्रिम् । सुनेत्रातिलावण्यकारुण्यशान्तं सलक्ष्मीकनारायणं तं नमामि ॥ २॥ सुशङ्खं च चक्रं च धारद्विपाणिं सदानुग्रहालम्बपाणिद्वयं च । कुसंसारतापापहानन्दधेयं सलक्ष्मीकनारायणं तं नमामि ॥ ३॥ सदास्मेरवक्त्रं स्फुटाम्भोजवक्त्रं स्मितानन्द नेत्रं ललाटातिशोभम् । सुनासप्रवातप्रपञ्चस्थवायुं सलक्ष्मीकनारायणं तं नमामि ॥ ४॥ सुमाधुर्यनादोद्भवाचारुकण्ठं सुपिङ्गाशमुक्तावलीभूषकण्ठम् । उरःस्मेरसौवर्णलक्ष्मीसुकान्तिं सलक्ष्मीकनारायणं तं नमामि ॥ ५॥ सुकर्णालसत्काञ्चनाभूषहीरं शिरोल्लासरत्नावलिद्योतफालम् । सुभासाननादीप्रतेजस्स्वरूपं सलक्ष्मीकनारायणं तं नमामि ॥ ६॥ सुगङ्गाप्रवाहोद्भवापुण्यपादं नतोद्धारणापूज्यपादद्वयं च । सुलक्ष्मीवरश्रीकराभूषपादं सलक्ष्मीकनारायणं तं नमामि ॥ ७॥ सुनेत्रासुभूषासुमालासुफाला सुवर्णासुपर्णासुभाषासुलासा । सुलक्ष्मीसपत्नीसपत्नीकविष्णुं सलक्ष्मीकनारायणं तं नमामि ॥ ८॥ शिवानन्दलास्यप्रसन्नातिसौम्यं शिवाजप्तनामस्मरानन्दपुण्यम् । स्तुतिस्तोत्रसुग्रीवगायन्तभव्यं सलक्ष्मीकनारायणं तं नमामि ॥ ९॥ भुजङ्गप्रयातप्रगीतप्रशान्तं भुजङ्गप्रयातप्रगेयप्रसादम् । भुजङ्गे शयानं सुलक्ष्मीसमेतं भजेहं हरिं तं परार्थं सुभद्रम् ॥ १०॥ सुभद्रं सलक्ष्मीकनारायणाय सुभद्रं गुरुत्यागराजार्यगाय । सुभद्रं सुपुष्पावलिस्फूर्तिगाय सुभद्रं सुमाङ्गल्यदात्रे सुभद्रम् ॥ ११॥ नारायणाय देवाय क्षीरसागरशायिने । आदिशेषविकासाय सलक्ष्मीकाय मङ्गलम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीलक्ष्मीनारायणभुजङ्गप्रयातस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan