अक्षर आकार:

श्रीलक्ष्मीनारायणाष्टोत्तरशतनामस्तोत्रम्

Shri Lakshminarayana Ashtottarashatanamastotram

श्रीलक्ष्मीनारायणाष्टोत्तरशतनामस्तोत्रम्

श्रीर्विष्णुः कमला शार्ङ्गी लक्ष्मीर्वैकुण्ठनायकः । पद्मालया चतुर्बाहुः क्षीराब्धितनयाऽच्युतः ॥ १॥ इन्दिरा पुण्डरीकाक्षा रमा गरुडवाहनः । भार्गवी शेषपर्यङ्को विशालाक्षी जनार्दनः ॥ २॥ स्वर्णाङ्गी वरदो देवी हरिरिन्दुमुखी प्रभुः । सुन्दरी नरकध्वंसी लोकमाता मुरान्तकः ॥ ३॥ भक्तप्रिया दानवारिः अम्बिका मधुसूदनः । वैष्णवी देवकीपुत्रो रुक्मिणी केशिमर्दनः ॥ ४॥ वरलक्ष्मी जगन्नाथः कीरवाणी हलायुधः । नित्या सत्यव्रतो गौरी शौरिः कान्ता सुरेश्वरः ॥ ५॥ नारायणी हृषीकेशः पद्महस्ता त्रिविक्रमः । माधवी पद्मनाभश्च स्वर्णवर्णा निरीश्वरः ॥ ६॥ सती पीताम्बरः शान्ता वनमाली क्षमाऽनघः । जयप्रदा बलिध्वंसी वसुधा पुरुषोत्तमः ॥ ७॥ राज्यप्रदाऽखिलाधारो माया कंसविदारणः । महेश्वरी महादेवो परमा पुण्यविग्रहः ॥ ८॥ रमा मुकुन्दः सुमुखी मुचुकुन्दवरप्रदः । वेदवेद्याऽब्धि-जामाता सुरूपाऽर्केन्दुलोचनः ॥ ९॥ पुण्याङ्गना पुण्यपादो पावनी पुण्यकीर्तनः । विश्वप्रिया विश्वनाथो वाग्रूपी वासवानुजः ॥ १०॥ सरस्वती स्वर्णगर्भो गायत्री गोपिकाप्रियः । यज्ञरूपा यज्ञभोक्ता भक्ताभीष्टप्रदा गुरुः ॥ ११॥ स्तोत्रक्रिया स्तोत्रकारः सुकुमारी सवर्णकः । मानिनी मन्दरधरो सावित्री जन्मवर्जितः ॥ १२॥ मन्त्रगोप्त्री महेष्वासो योगिनी योगवल्लभः । जयप्रदा जयकरः रक्षित्री सर्वरक्षकः ॥ १३॥ अष्टोत्तरशतं नाम्नां लक्ष्म्या नारायणस्य च । यः पठेत् प्रातरुत्थाय सर्वदा विजयी भवेत् ॥ १४॥ इति श्री लक्ष्मीनारायणाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।