अक्षर आकार:

श्रीलक्ष्मीनारायणाष्टकम्

Shri Lakshminarayana Ashtakam

श्रीलक्ष्मीनारायणाष्टकम्

आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम् । अशेषजगदाधारं लक्ष्मीनारायणं भजे ॥ १॥ अपारकरुणाम्भोधिं आपद्बान्धवमच्युतम् । अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ २॥ भक्तानां वत्सलं भक्तिगम्यं सर्वगुणाकरम् । अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ३॥ सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम् । अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ४॥ चिदचित्सर्वजन्तूनां आधारं वरदं परम् । अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ५॥ शङ्खचक्रधरं देवं लोकनाथं दयानिधिम् । अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ६॥ पीताम्बरधरं विष्णुं विलसत्सूत्रशोभितम् । अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ७॥ हस्तेन दक्षिणेन यजं अभयप्रदमक्षरम् । अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ८॥ यः पठेत् प्रातरुत्थाय लक्ष्मीनारायणाष्टकम् । विमुक्तस्सर्वपापेभ्यः विष्णुलोकं स गच्छति ॥ इति श्रीलक्ष्मीनारायणाष्टकम् सम्पूर्णम् ।