अक्षर आकार:

श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः

Shri Lakshmi Hayavadana Mantramalika Stuti

श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः

॥ श्रीः ॥ श्रियै नमः । श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः । श्रीगुरुपरम्पराभ्यो नमः । अस्मद्गुरुपरम्पराभ्यो नमः ॥ तर्कतीर्थपण्डितरत्नाद्यनेकबिरुदावलीविभूषितानां महीशूरमहानगरीय- कस्तूरि-रङ्गाचार्यस्वामिपादानां कृतिषु श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः ॥ ओमित्यात्मानमन्तर्नियमितकरणैर्ध्यायतां ध्यायतीहां ओमित्येव स्वयं यः परिहृतविहतिं सिद्धिमाधातुकामः । वक्त्रे वाहस्य तस्य स्तुतिमतिमितवाक्प्रस्तुवे तन्मनूद्य- द्वर्णाद्यस्रग्धराभिर्विमृदितविविधावद्यधाराभिरद्य ॥ १॥ ऋग्भिः शाशस्यमानो महिमजुषि यजुष्येष जोघुष्यमाणः साम्ना तोष्टूय्यमानो मुनिजनहृदयाब्जेषु राराज्यमानः । नीहारोर्वीधराभा प्रतिभटरुचिभिः किञ्च बाभास्यमानः श्रेयः स्थेयो विधत्तां मम हयवदनाभिख्यया ख्यायमानः ॥ २॥ यच्छत्वच्छाच्छबोधप्रसरमिह स नश्छन्दमात्राप्रक्लृप्ता चिच्चिच्चित्रप्रपञ्चस्थिरिगतिनियतिर्मुर्ध्नि तुङ्गस्तुरङ्गः । भङ्गव्यासङ्गदूरप्रसृमरशरदुद्भूतराकासुधांशु- ज्योत्नासच्छायविद्याविसरवितरणस्थूललक्षो वलक्षः ॥ ३॥ जुष्टो देव्या तयाऽव्यान्निगमसमुदयद्रोहसंरम्भगर्ज- द्दैतेयारण्यवाहद्विषदुदितरवन्यक्चिकीर्षाऽऽकुलस्य । वक्त्रे वाहस्य हेषाहलहलनिनदेऽभूतपूर्वे प्रवृत्ते भ्रान्त्वोरस्तोऽवतीर्य द्रततरममुमाश्लिष्य या विस्मिताऽऽस्ते ॥ ४॥ सारः साम्नामुदारः सरसतरऋचामृद्धिरन्तर्धिदूरा भद्रावष्टम्भयष्टिर्विधिनिधि यजुषां भाग्यमाथर्वणानाम् । अङ्गानां तुङ्गश‍ृङ्गं लगतु मम तुरङ्गोत्तमाङ्गोऽन्तरङ्गे सद्यो हृद्यानि पद्यान्यपि परिकलयन् विश्वविद्यानिषद्या ॥ ५॥ मध्येबिम्बं सुधांशोर्द्युमणिनिभमणिश्रेणिभाराजिराजत् हारैस्तारैरुदारैरहसितसुधासागरोत्सारिपूरैः । बामाङ्कावासलीलाकुतुकललितयाऽप्यङ्कितः पङ्कजाक्ष्या शङ्कातङ्कं च पङ्कं तिरयतु करुणापङ्किलः कश्चिदर्वा ॥ ६॥ रूढा प्रौढासु वाचास्वपि पुरुषमतिव्यापृतिव्याप्त्यपोढासु आधूतान्तासु तासु प्रतिहतगतिता त्वन्नुऽतावाननेऽर्वन् । इत्थं सत्यप्यहं यत्तव गुणगणनारम्भसंरम्भनिघ्नः स्थाने तद् येन बालोऽप्यतिविततभुजो विस्तृतिं वक्ति सिन्धोः ॥ ७॥ पातापातालभूम्यम्बरतलनिलयावासजायाससारात् यातायातानुपूर्व्यादविगतजननीगर्भविभ्रान्तियोगात् । वेद्या वेद्यावमर्शास्स्खलितगतियतीशानराज्यासभाज्यः शान्ताशान्तां समृद्धिं वितरतु स मम व्याजवाजीविराजी ॥ ८॥ यस्मिन् विज्ञानवार्धावधिजगति पुरोज्जृम्भमाणेऽष्टमूर्तेः मूर्तिः सा दक्षिणाख्या त्रिदशपरिषदा बिन्दुरालक्ष्य दक्षा । वाणी सा पद्मसद्मप्रियतमगृहिणी काऽप्यभाणीह वेणी पाराशर्यप्रधानोऽप्यगणि मुनिगणः पल्वलं पातु सोऽर्वा ॥ ९॥ वेदोद्धारोद्यतं तत्प्रदिशतु मिथुनं शर्म शर्वादिमानां सेवाहेवाकभूमोद्यदहमहमिकाकुञ्चनद्वेषिमूर्ध्नाम् । शीर्षेष्वाभान्ति यस्य द्विगुणमणिलताभावभाजः कटाक्षाः कल्योत्फुल्लाम्बुजातप्रमदभरनिराकारनिस्तन्द्रदृष्टेः ॥ १०॥ दाक्ष्यं लक्ष्येत धातुः क्वनु खलु जगतीजालनिर्माणलीला- रम्भे संज्ञाविधावप्यथ च तदुचितानेकमूर्तिप्रक्लृप्तौ । तत्तत्कृत्यप्रपञ्चेष्वपि च दिविषदां दैत्यपाशाहृताना- माम्नायानां दयार्द्रो यदि हयवदनो नोद्धृतिं संविदध्यात् ॥ ११॥ हस्तालम्बाय भूयात् स मम पथि सतां स्रस्तवृत्तस्य नित्यं न्यस्ताशेषागमाब्धेरधिकमपि समं वस्तुनी यस्य न स्तः । शस्तामस्तोकधीसंस्तुतिमपि जनयन् यो नयन्मोहमस्तं न्यस्तं यस्सव्यहस्ते कलयति च मुदा पुस्तकं मस्तकेऽर्वा ॥ १२॥ रत्नं यत्प्रत्नवाचा निरुपमसुषमाकान्तसीमन्तिनीनां सीमन्ते नित्यलाल्यं हृदयसरसिजेऽजस्रधार्यं बुधानाम् । दुग्धोदन्वत्तनूजाकरजलजयुगीलालनोद्यन्मृजातो नित्यं नूत्नं हयास्यं मम कलयतु तन्निस्सपत्नं प्रयत्नम् ॥ १३॥ णत्वं यद्भिन्नवृत्तावघटितमुपलभ्योद्यमाद्द्राग्विरेमुः ते ते नारायणाख्यामितरविबुधसाधारणीं कर्तुकामाः । यस्मिंस्तद्योगरूढ्योर्गुणमणिजलधौ पुष्कलं वर्तनं स्यात् देवो मायाधवोऽसौ धयतु हृदि रुजां सैन्धवो बान्धवो नः ॥ १४॥ कर्णावर्णोजराजन्मुकुलदलसमावर्वतोऽनर्वणो मे प्रोर्णुयास्ता ललाटे कुटिलविधिसमुत्कीर्णसङ्कीर्णवर्णान् । वर्ण्येते यावमुष्य त्रिभुवनवपुषो व्योमपातालरूपौ पर्णैर्वाऽप्यर्णसा वा सततमपि रुचिं पूर्णयद्भिर्महद्भिः ॥ १५॥ मण्डल्या मण्डनानां मणिगणघृणिभिर्धूर्णितद्योमणीनां नीरन्ध्रं मण्डिताङ्गः सितकररुचिरे पुण्डरीके निषण्णः । आम्नायानां शिखण्डैरवगतगरिमाखण्डिताखण्डलारिः दण्डं पाषण्डषण्डे क्षिपतु स तरसा वाजितुण्डप्रकाण्डः ॥ १६॥ एकोऽग्रे लोकमात्रा सहमहितविहृत्युन्मनास्तन्मुदे यो नाभीपद्मे विधातुर्जनिमपि कलयन् यो नयत्यागमांस्तम् । (नाभीपद्मे विधाय द्रुहिणममुमथो यो नयत्यागमौघम् ।) (पा) । लोकाम्नायैकमूलाक्षररुचिरकलामातृका सा यदीया सोसाविष्ठं प्रकृष्टं घटयतु दितिजस्फोटको घोटको नः ॥ १७॥ प्रण्यायेनाध्वराणां मनुमयतनुमाघाय विष्वग्विनिर्यत् ज्वालामालाजटालानलहुतहविषां सारमास्वाद्य चारुम् । गीर्वाणान्वारवाणान्नियमितकरणां स्तूर्णमाप्याय्य कामाः कल्प्यन्ते याजमानाः कलयतु स मुदं कोऽप्यनर्वाऽऽननेऽर्वा ॥ १८॥ अव्यादव्याहतार्थो धियमुपजनयन् अव्ययोव्याजवाजी भव्याभव्याकृताद्याकृतिमतनुत यो नामरूपद्वयस्य । योऽन्तर्यन्तुं च मन्तुं व्युदसितुमदिशज्जन्तुजातस्य यो वा कल्पान्तेऽल्पान्यलोकग्रसनसमुदितापीनतानन्दितुन्दः ॥ १९॥ ओदन्वन्मेखलान्ताद्बलिनिलययुतात् क्ष्मातलादाच लोकात्। नालीकावासवासादवहितमनसाऽपीक्षिते स्थास्नुजाते । यादृङ्नालक्षि कश्चित् सकृदपि नमतां साध्वसध्वंसदक्षः भक्तानुक्रोशलक्ष्मा क्षपयतु मम हृत्क्षोभमक्ष्णा स वाजी ॥ २०॥ गीते दैतेयमोहं कलयितुमनसो यस्य हेषानुषक्ते प्रख्यातोद्गीथभक्तिं श्रितवति जनिते रोदसीरोधके द्राक् । देवाः सम्भ्रान्तभावा दितिजकुलमलं व्याकुलं धूतगर्वा गन्धर्वा मोहशेषं समजनि जगतीशेषमेषोऽवतान्माम् ॥ २१॥ थं किं शब्दस्य मूर्ध्नि क्वचिदुदितमुपश्रुत्य यत्तत्पदादिषु अप्येतद्योजयित्वा कटुरटनपटुस्वैरवाचोऽपि जन्तोः । सद्यः सिद्‍ध्यन्ति वाण्यो नमदमरशिरस्सद्म यत्पादपद्म- ध्यानाद्द्राक्षासदृक्षाःकलितगुरुशिरःकम्पनाःपातु सोऽर्वा ॥ २२॥ वक्तुं सूक्तं सुधाक्तं प्रतिकथकवचोवीचिवेगं च हर्तुं कर्तुं काव्यं च भव्यं हितमपि पुरुषार्थं च तत्त्वं च वेत्तुम् । वाच्छा चेन्मानस अञ्च स्फटिकमणिमयक्ष्माधराभाधरीकृत् रोचिर्वीचीभिरारादखिलमपि जगत्प्लावयन्तं हयं तम् ॥ २३॥ पुष्णन् हर्षं सुराणां जनिमयमयति स्मेति नो वस्तुमीशे प्रागेवासीत्प्रमत्तासुरगृद्रुनिकरे यत्सुराणां प्रहर्षः । श्रुत्याविर्भूतिहेतुः श्रवणसमुदयानन्तरेऽस्मिन्नयुक्तः तस्मादस्मादनन्यान् ध्रुवमवितुमसावाविरासाश्वभासा ॥ २४॥ एतश्श्वेतोऽपि राजद्रजतगिरिवराकारधिक्कारकारी विद्युद्विद्योतभासोद्यदरुणकिरणोन्निद्रपद्म वहन्त्या । कालिन्दीमन्दिरेन्दीवररुचिरुचिरापाङ्गधाराभिरारात् सिञ्चन्त्याङ्गानि देव्या सततकृतपरिष्वङ्गतोऽव्यात् तुरङ्गः ॥ २५॥ मञ्जीरं मञ्जुलं ते हयमुख ! मम सञ्जीवनायास्तु शिञ्जा व्याजेनाम्नायवाचामनितरपरतां व्यञ्जयत्त्वत्पदोर्यत् । लग्नं तद्धारणासु द्विगुणमुनिजनस्तोमहृत्पद्मनित्यो- ल्लासायासादितात्मद्वयमिव सविधे जाग्रदर्कस्य विम्बम् ॥ २६॥ हारिद्रं किन्नु सूत्रं श्रुतिततिसुदतीकण्ठमूषार्थक्लृप्तं स्रोतस्सारस्वतं वाङ्मयजननगीरेर्निस्सृत वेति शक्यम् । वक्त्रे वाहस्य वामप्रसृतितललसद्धैमसत्पुस्तकान्तः दीव्यत्सूत्रं पवित्रं मम कलयतु शं भानुमानोः सगोत्रम् ॥ २७॥ श्वभ्रेष्वभ्रेभियातीन्दितितनुजनुषो भ्रामयित्वा विभिन्दन् शीर्णाङ्गान् कीर्णकेशान् भृशमतिरभसं पातयन् निर्जराणाम् । स्वाराज्यं प्राज्ययन्यो मिहिर इव हिमज्याधरादुज्जिहानः भाभात्यश्वास्यवामेतरकरविधृतश्चक्रराजस्स नोव्यात् ॥ २८॥ शिष्याणां चित्तभूमौ प्रचुरतरतमःकण्टकानि व्यपोह्य आसिच्यात्यर्थं कटाक्षामृतरसविसरैश्शास्त्रबीजानि वप्तुम् । निर्निद्रो ज्ञानमुद्रारुचिरकरतले दक्षिणे योऽक्षमालां बिभ्रद्भात्यश्ववक्तुः सहरतु नितरामंहसां संहतिं मे ॥ २९॥ रम्यं स्याद्विम्बमिन्दोः शरदुदितरुचेरम्बरान्निर्यदेतत् किं वा डिण्डीरखण्डं कलशजलनिधेः किं नु वा पुण्डरीकम् । वाग्ब्रह्मोद्दामलीलागृहमिति विबुधैरूह्यमानो हयास्ये नोपात्तः सव्यहस्ते मम भवतु शुभालम्बनं कम्बुराजः ॥ ३०॥ सेव्या शर्वादिसर्वत्रिदशपरिषदा शश्वदासाश्विनी श्रीः अस्माकं या सपत्नी लसति बत शिरोऽस्याधिरूढेति सेर्ष्यम् । जेतुं तां सन्ततोदित्वरवरमहसा भाति नक्षत्रमाला देवच्छन्दे स्थिता यं सततमपि समाराधयन्तीव सोऽव्यात् ॥ ३१॥ नन्तुः सन्त्रासहारी दधदपि हरितां शश्वदात्मन्यनूनां यस्तां मूर्ध्न्येव नित्यं प्रकटयति हरेः पूरुषस्यापि सत्यम् । श्रौतीं मुख्येतरत्वावगतिमपि विशिष्टाद्वितीयत्वदृष्टिं स्पष्टीकर्तुं जगत्यां स्फुटयतु स झटित्यस्मदिष्टं विशिष्टम् ॥ ३२॥ मस्तेऽर्वन् विस्तरैः किं विहर मम मनोमन्दुरायाममन्दं कल्पन्तेऽनुप्लवास्ते मम सततमिमे हीन्द्रियाश्वा दशाऽपि । किं चात्रानल्पकल्पावसरविसरदुच्चावचाकारमूर्ति- स्फूर्तिस्फीतोरुकर्मप्रगुणतृणगणश्चर्वणाय प्रणीतः ॥ ३३॥ वस्तूरीकर्तुमर्चाविधिषु समुचितं नान्यदस्येति जानन् कस्तूरीरङ्गनाथः स्तवमिममुपद(ध)मादिमाश्वस्य धत्ते । यस्तूनो योतिरिक्तः सकलमपि च तं हृद्ययन्नर्थमस्मिन् स्वस्तूलीकारधीरां वितरतु पठतां वागधीशः स बुद्धिम् ॥ ३४॥ इति श्रीकस्तूरीरङ्गार्यकृतिषु श्रीलक्ष्मीहयवदनमन्त्रमालिकास्तुतिः समाप्ता ।