अक्षर आकार:

श्रीलक्ष्मीहयग्रीवपञ्चरत्नम्

Shri Lakshmihayagriva Pancharatnam

श्रीलक्ष्मीहयग्रीवपञ्चरत्नम्

ज्ञानानन्दामलात्मा कलिकलुषमहातूलवातूलनामा सीमातीतात्मभूमा मम हयवदना देवता धावितारिः । याता श्वेताब्जमध्यं प्रविमलकमलस्रग्धरादुग्धराशिः स्मेरा सा राजराजप्रभृतिनुतिपदं सम्पदं संविधत्ताम् ॥ १॥ ताराताराधिनाथस्फटिकमणिसुधाहीरहाराभिरामा रामा रत्नाब्धिकन्याकुचलिकुचपरीरम्भसंरम्भधन्या । मान्याऽनन्यार्हदास्यप्रणतततिपरित्राणसत्नात्तदीक्षा दक्षा साक्षात्कृतैषा सपदि हयमुखी देवता साऽवतान्नः ॥ २॥ अन्तर्ध्वान्तस्य कल्यं निगमहृदसुरध्वंसनैकान्तकल्यं कल्याणानां गुणानां जलधिमभिनमद्बान्धवं सैन्धवास्यम् । शुभ्रांशु भ्राजमानं दधतमरिदरौ पुस्तकं हस्तकञ्जैः भद्रां व्याख्यानमुद्रामपि हृदि शरणं याम्युदारं सदारम् ॥ ३॥ वन्दे तं देवमाद्यं नमदमरमहारत्नकोटीरकोटी- वाटीनियत्ननिर्यद्घृणिगणमसृणीभूतपादांशुजातम्। श्रीमद्रामानुजार्यश्रुतिशिखरगुरुब्रह्मतन्त्रस्वतन्त्रैः पूज्यं प्राज्यं सभाज्यं कलिरिपुगुरुभिश्शश्वदश्वोत्तमाङ्गम् ॥ ४॥ विद्या हृद्याऽनवद्या यदनघकरुणासारसारप्रसारात् धीराधाराधरायामजनि जनिमतां तापनिर्वापयित्री । श्रीकृष्ण ब्रह्मतन्त्रादिमपदकलिजित्संयमीन्द्रार्चितं तत् श्रीमद्धामातिभूम प्रथयतु कुशलं श्रीहयग्रीवनाम ॥ ५॥ इति श्रीकृष्णब्रह्मतन्त्रपरकालमहादेशिककृतिषु श्रीलक्ष्मीहयग्रीवपञ्चरत्नं नाम स्तोत्रं समाप्तम् ॥