अक्षर आकार:

लघु वायुस्तुती

laghu vAyu stuti

लघु वायुस्तुती

॥ लघुवायुस्तुतिः ॥ वासुदेवं सदानंदतीर्थानंदसंदोहसंदानशीलम् । स्वामिनं सच्चिदानंदरूपं नंदयामोवयं नंदसूनुम् ॥ १॥ श्रीहनूमंतमेकांतभाजं राघवश्रीपदांभोजभृङ्गम् । मारुतिं प्राणिनां प्राणभूतं नंदयामोवयं नंदितीर्थम् ॥ २॥ भीमरूपं परो पेयिवांसं भारतं भारतश्रीललामम् । भूभरध्वंसिनां भारतीशं नंदयामोवयं नंदितीर्थम् ॥ ३॥ देवचूडामणिं पूर्णबोधं कृष्णपादारविंदैकदासम् । चित्तचिंतामणिं पुण्यभाजां नंदयामोवयं नंदितीर्थम् ॥ ४॥ मायिगोमायुमायांधकार ध्वंसमार्ताण्ड मूर्तीयमानम् । सज्जनानंदसंदोहधेनुं नंदयामोवयं नंदितीर्थम् ॥ ५॥ इंदिरानंदमानंदमूर्तिं सुंदरीमंदिरामिंदुकांतिम् । दासमेकं तथा तत्त्वरूपं नंदयामोवयं नंदितीर्थम् ॥ ६॥ इति श्रीकल्याणीदेवी विरचितं लघुवायुस्तुतिः सम्पूर्णम् ॥ भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णार्पणमस्तु ॥