अक्षर आकार:

लीलाशतनामस्तोत्रम्

lIlAshatanAmastotram

लीलाशतनामस्तोत्रम्

कृष्णलीलाशतनामस्तोत्रम् शाण्डिल्य उवाच । अथ लीलाशतं स्तोत्रं प्रवक्ष्यामि हरेः प्रियम् । यस्याभ्यसनतः सद्यः प्रीयते पुरुषोत्तमः ॥ १॥ यदुक्तं श्रीमता पूर्वं प्रियायै प्रीतिपूर्वकम् । ललितायै यथाप्रोक्तं सा मह्यं कृपया जगौ ॥ २॥ श्रुतिभिर्यत्पुरा प्रोक्तं मुनिभिर्यत्पुरोदितम् । तदहं वो वर्णयिष्ये श्रद्धालून् संमतान् शुचीन् ॥ ३॥ लीलानामशतस्यास्य ऋषयोऽग्निसमुद्भवाः । देवता शीपतिर्नित्यलीलानुग्रहविग्रहः ॥ ४॥ छन्दांस्यनुष्टुप् रूपाणि कीर्तितानि मुनीश्वराः । बीजं भक्तानुग्रहकृत् शक्तिलीलाप्रियः प्रभुः ॥ ५॥ श्रीकृष्णभगवत्प्रीतिद्वारा स्वार्थे नियोजनम् । सर्वेश्वरश्च सर्वात्मा सर्वतोऽस्रेण रक्षतु ॥ ६॥ श्रीकृष्णः सच्चिदानन्दः स्वतन्त्रपरमावधिः । लीलाकर्ता बाललीलो निजानन्दैकविग्रहः ॥ ७॥ लीलाशक्तिर्निजलीलासृष्टिदेहो विनोदकृत् । वृन्दावने गोपिगोपगोद्विजादिसचिन्मयः ॥ ८॥ वाक्सृष्टिकर्ता नादात्मा प्रणवो वर्णरूपधृक् ॥ ९॥ प्रकृतिः प्रत्ययो वाक्यो वेदो वेदाङ्गजः कविः । मायोद्भवोद्भवोऽचिन्त्यकार्यो जीवप्रवर्तकः ॥ १०॥ नानातत्त्वानुरूपश्च कालकर्मस्वभावकः । वेदानुगो वेदवेत्ता नियतो मुक्तबन्धनः ॥ ११॥ असुरक्लेशदो क्लिष्टजननिद्रारतिप्रदः । नारायणो हृषीकेशो देवदेवो जनार्दनः ॥ १२॥ स्ववर्णाश्रमधर्मात्मा संस्कृतः शुद्धमानसः । अग्निहोत्रादिपञ्चात्मा स्वर्गलोकफलप्रदः ॥ १३॥ शुद्धात्मज्ञानदो ज्ञानगम्यःस्वानन्ददायकः । देवानन्दकरो मेघश्यामलः सत्त्वविग्रहः । १४॥ गम्भीरोऽनवगाह्यश्रीद्विभुजो मुरलीधरः । पूर्णानन्दघनः साक्षात् कोटिमन्मथमन्मथः ॥ १५॥ श्रुतिगम्यो भक्तिगम्यो मुनिगम्यो व्रजेश्वरः । श्रीयशोदासुतो नन्दभाग्यचिन्तामणिः प्रभुः ॥ १६॥ अविद्याहरणः सर्वदोषसङ्घविनाशकः । निःसाधनोद्धारदक्षो भक्तानुग्रहकातरः ॥ १७॥ सर्वसामर्थ्यसहितो दैवदोषनिवारकः । कुमारिकानुग्रहकृद् योगमायाप्रसादकृत् ॥ १८॥ ब्रह्मानन्दपरानन्दभजनानन्ददायकः । लोकव्यामोहकृत्स्वीयानुग्रहो वेणुवादतः ॥ १९॥ नित्यलीलारासरतो नित्यलीलाफलप्रदः । मूढोद्धारकरो राजलीलासन्तोषितामरः ॥ २०॥ सतां लोकद्वयानन्ददश्चैश्वर्यादिभूषितः । निरोधलीलासम्पत्तिर्दशलीलापरायणः ॥ २१॥ द्वादशाङ्गवपुः श्रीमाँश्चतृर्व्यूहश्चतुर्मयः । गोकुलानन्ददः श्रीमद् गोवर्धनकृताश्रयः ॥ २२॥ चराचरानुग्रहकृद्वंशीवाद्यविशारदः । देवकीनन्दनो द्वारापतिर्गोवर्धनाद्रिभृत् ॥ २३॥ श्रीगोकुलसुधानाथः श्रीमुकुन्दोऽतिसुन्दरः । बाललीलारतो हैयङ्गवीनरसतत्परः ॥ २४॥ नृत्यप्रियो युग्मलीलो त्रिभङ्गललिताकृतिः । आचार्यानुगृहीतात्मा करुणावरुणालयः ॥ २५॥ श्रीराधिकाप्रेममूर्तिः श्रीचन्द्रावलिवल्लभः । ललिताप्राणनाथः श्रीकलिन्दगिरिजाप्रियः ॥ २६॥ अप्राकृतगुणोदारो ब्रह्मेशेन्द्रादिवन्दितः । पवित्रकीर्तिःश्रीनाथो वृन्दारण्यपुरन्दरः ॥ २७॥ इति लीलाशतं नाम्नां निजात्मकसमन्वितम् । यः पठेत्प्रत्यहं प्रीत्या तं प्रीणाति स माधवः ॥ २८॥ ईषणात्रयनिर्मुक्तो या पठेद्धरिसन्निधौ । सोऽचलां भक्तिमाप्नोति इति सत्यं मुनीश्वराः ॥ २९॥ ईषणात्रयसम्पन्नं यस्य चित्त प्रखिद्यति । तेनात्र ध्यानगम्येन प्रकारेण समाप्यते ॥ ३०॥ पुत्रेषणासु सर्वासु ध्यायेत्पुत्रप्रदं हरिम् । ब्रह्माणं मोहयत्तेन वरावाप्तिः प्रजायते ॥ ३१॥ वित्तेषणास्सु वासांसि भूषणानि शिखामणिम् । वदन्तं विषयीकुर्वंल्लभते तत् स्थिरञ्च यत् ॥ ३२॥ लोकेषणासु नन्दस्य साधयन्परतन्त्रताम् । ध्यात्वा हृदि महाभाग्यो भवेल्लोकद्वये पुमान् ॥ ३३॥ समर्च्य भगवन्तं तं शालग्रामस्य मन्दिरे । नमोऽन्तैर्नामसन्मन्त्रैर्दद्याद्वृन्दादलान्यसौ ॥ ३४॥ निवेदयेत्ततः स्वार्थं मध्याह्ने पररात्रके । तेन सर्वमवाप्नोति प्रसीदति ततस्त्वमुम् ॥ ३५॥ सर्वापराधहरणं सर्वदोषनिवारणम् । सर्वभक्तिप्रजननं भावस्य सदृशं परम् ॥ ३६॥ एतस्यैव समासाद्य गायत्र्याख्यं महामनुम् । पठेन्नाम्ना सहस्रं च सुदामादिसमो भवेत् ॥ ३७॥ अनयोः सदृशं नास्ति प्रकारोऽत्रापरः परः । कामव्याकुलचितस्य शोधनाय सतां मतः ॥ ३८॥ न सौषधी मता पुंसा या गदान्तरमर्पयेत् । प्रकृतं सन्निवर्त्याघं वासनां या न संहरेत् ॥ ३९॥ विषयाक्रान्तचित्तानां नावेशः कर्हिचिद्धरेः । ततो निवृत्तिः कार्येभ्य इत्याह तनयं विधिः ॥ ४०॥ श्रीकृष्णेति महामन्त्रं श्रीकृष्णेति महौषधी । ये भजन्ति महाभागास्तेषां किं किं न सिद्धयति ॥ ४१॥ इति लीलाशतनामस्तोत्रं सम्पूर्णम् । इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे द्वितीयभागे तृतीयो अष्टादशोऽध्यायः ॥ १८॥