अक्षर आकार:

कुञ्जविहार्यष्टकम् २

ku~njavihAryaShTakam 2

कुञ्जविहार्यष्टकम् २

द्वितीयं श्रीकुञ्जविहार्यष्टकं नमः कुञ्जविहारिणे । अविरतरतिबन्धुस्मेरताबन्धुरश्रीः कबलित इव राधापाङ्गभङ्गीतरङ्गैः । मुदितवदनचन्द्रश्चन्द्रिकापीतधारी मुदिरमधुरकान्तिर्भाति कुञ्जे विहारी ॥ १॥ ततसुषिरघनानां नादमानद्धभाजां जनयति तरुणीनां मण्डले मण्डितानाम् । तटभुवि नटराजक्रीडया भानुपुत्र्याः विदधदतुलचारिर्भाति कुञ्जे विहारी ॥ २॥ शिखिनिगलितषड्जेकोकिले पञ्चमाढ्ये स्वयमपि नववंश्योद्दामयन् ग्राममुख्यम् । धृतमृगमदगन्धः सुष्ठुगान्धारसंज्ञं त्रिभुवनधृतिहारिर्भाति कुञ्जे विहारी ॥ ३॥ अनुपमकरशाखोपात्तराधाङ्गुलीको लघु लघु कुसुमानां पर्यटन् वाटिकायाम् । सरभसमनुगीतश्चित्रकण्ठीभिरुच्चैः व्रजनवयुवतीभिर्भाति कुञ्जे विहारी ॥ ४॥ अहिरिपुकृतलास्ये कीचकारब्धवाद्ये व्रजगिरितटरङ्गे भृङ्गसङ्गीतभाजि । विरचितपरिचर्यश्चित्रतौर्यत्रिकोण- स्तिमितकरणवृत्तिर्भाति कुञ्जे विहारी ॥ ५॥ दिशि दिशि शुकशारीमण्डलैर्गूढलीलाः प्रकटमनुपठद्भिर्निर्मिताश्चर्यपूरः । तदतिरहसि वृत्तं प्रेयसीकर्णमूले स्मितमुखमभिजल्पन् भाति कुञ्जे विहारी ॥ ६॥ तव चिकुरकदम्बं स्तम्भते प्रेक्ष्य केकी नयनकमललक्ष्मीर्वन्दते कृष्णसारः । अलिरलमलकान्तं नौति पश्येति राधां सुमधुरमभिशंसन् भाति कुञ्जे विहारी ॥ ७॥ मदनतरलबाला चक्रवालेन विष्वग्- विविधवरकलानां शिक्षया सेव्यमानः । स्खलितचिकुरवेशे स्कन्धदेशे प्रियायाः प्रथितपृथुलबाहुर्भाति कुञ्जे विहारी ॥ ८॥ इदमनुपमलीलाहारि कुञ्जविहारी स्मरणपदमधीते तुष्टधीरष्टकं यः । निजगुणवृतया श्रीराधयाराधिऽऽराधितस्तं नयति निजपदाब्जं कुञ्जसद्माधिराजः ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकुञ्जविहार्यष्टकं द्वितीयं सम्पूर्णम् ॥