अक्षर आकार:

कुञ्जविहार्यष्टकम् १

ku~njavihAryaShTakam 1

कुञ्जविहार्यष्टकम् १

प्रथमं श्रीकुञ्जविहार्यष्टकं इन्द्रनीलमणिमञ्जुलवर्णः फुल्लनीपकुसुमाञ्चितकर्णः । कृष्णलाभिरकृशोरसिहारी सुन्दरो जयति कुञ्जविहारी ॥ १॥ राधिकावदनचन्द्रचकोरः सर्ववल्लववधूधृतिचोरः । चर्चरीचतुरताञ्चितचारी चारुतो जयति कुञ्जविहारी ॥ २॥ सर्वताः प्रतिथकौलिकपर्वध्वंसनेन हृतवासवगर्वः । गोष्ठरक्षणकृते गिरिधारी लीलया जयति कुञ्जविहारी ॥ ३॥ रागमण्डलविभूषितवंशी विभ्रमेणमदनोत्सवशंसी- स्तूयमानचरितः शुकशारिश्रोणिभिर्जयति कुञ्जविहारी ॥ ४॥ शातकुम्भरुचिहारिदुकूलः केकिचन्द्रकविराजितचूडः । नव्ययौवनलसद्व्रजनारीरञ्जनो जयति कुञ्जविहारी ॥ ५॥ स्थासकीकृतसुगन्धिपटीरः स्वर्णकाञ्चिपरिशोभिकटीरः । राधिकोन्नतपयोधरवारीकुञ्जारो जयति कुञ्जविहारी ॥ ६॥ गौरधातुतिलकोज्ज्वलफालः केलिचञ्चलितचम्पकमालः । अद्रिकन्दरगृहेष्वभिसारी सुभ्रुवां जयति कुञ्जविहारी ॥ ७॥ विभ्रमोच्चलदृगञ्चलनृत्यक्षिप्तगोपललनाखिलकृत्यः । प्रेममत्तवृषभानुकुमारीनागरो जयति कुञ्जविहारी ॥ ८॥ अष्टकं मधुरकुञ्जविहारी क्रीडया पठति यः किल हारी । स प्रयाति विलसत्परभागं तस्य पादकमलार्चनरागम् ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीकुञ्जविहारिणः प्रथमाष्टकं समाप्तम् ।