श्रीकृष्णस्तोत्रं ब्रह्मवैवर्तपुराणे शम्भुकृतम्
महादेव उवाच । जयस्वरुपं जयदं जयेशं जयकारणम् । प्रवरं जयदानां च वन्दे तमपराजितम् ॥ १॥ विश्वं विश्वेश्वरेशं च विश्वेशं विश्वकारणम् । विश्वाधारं च विश्वस्थं विश्वकारणकारणम् ॥ २॥ विश्वरक्षाकारणं च विश्वघ्नं विश्वजं परम् । फलबीजं फलाधारं फलं च तत्फलप्रदम् ॥ ३॥ तेजःस्वरुपं तेजोदं सर्वतेजस्विनां वरम् । इत्येवमुक्त्वा तं नत्वा रत्नसिंहासने वरे । नारायणं च संभाष्य उवास स तदाज्ञया ॥ ४॥ इति शंभुकृतं स्तोत्रं यो जनः संयतः पठेत् । सर्वसिद्धिर्भवेत्तस्य विजयं च पदे पदे ॥ ५॥ संततं वर्धते मित्रं धनमैश्वर्यमेव च । शत्रुसैन्यं क्षयं याति दुःखानि दुरितानि च ॥ ६॥ इति ब्रह्मावैवर्ते शम्भुकृतं श्रीकृष्णस्तोत्रम् ।brahmavaivartapurANa brahmakhaNDam adhyAya 3 shloka 24-29