श्रीकृष्णस्तोत्रं ब्रह्मवैवर्तपुराणे सरस्वतीकृतम्
सरस्वत्युवाच । रासमण्डलमध्यस्थं रासोल्लाससमुत्सुकम् । रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥ १॥ रासेश्वरं ऱासकरं वरं ऱासेश्वरीश्वरम् । ऱसाधिष्ठातृदेवं च वन्दे ऱासविनोदिनम् ॥ २॥ रासायासपरिश्रान्तं रासरासविहारिणम् । रासोत्सुकानां गोपीनां कान्तं शान्तं मनोहरम् ॥ ३॥ प्रणम्य च तमित्युक्त्वा प्रह्यष्टवदना सती । उवास सा सकामा च रत्नसिंहासने वरे ॥ ४॥ इति वाणीकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् । बुद्धिमान्धनवान्सोऽपि विद्यावान्पुत्रवान्सदा ॥ ५॥ इति ब्रह्मावैवर्ते सरस्वतीकृतं श्रीकृष्णस्तोत्रम् ।brahmavaivartapurANa brahmakhaNDam adhyAya 3 shloka 60-64