श्रीकृष्णस्तोत्रं ब्रह्मवैवर्तपुराणे नारायणकृतम्
नारायण उवाच । वरं वरेण्यं वरदं वरार्हं वरकारणम् । कारणं कारणानां च कर्म तत्कर्मकारणम् ॥ १॥ तपस्तत्फ्लदं शश्वत्तपस्वीशं च तापसम् । वन्दे नवघनश्यामं स्वात्मारामं मनोहरम् ॥ २॥ निष्कामं कामरूपं च कामघ्नं कामकारणम् । सर्वे सर्वेश्वरं सर्वबीजरूपमनुत्तमम् ॥ ३॥ वेदरूपं वेदबीजं वेदोक्तफलदं फलम् । वेदज्ञं तद्विधानं च सर्ववेदविदां वरम् ॥ ४॥ इत्युक्त्वा भक्तियुक्तश्च स उवास तदाज्ञया । रत्नसिंहासने रम्ये पुरतः परमात्मनः ॥ ५॥ नारायणकृतं स्तोत्रं यः पठेत्सुसमाहितः । त्रिसंध्यं यः पठेन्नित्यं पापं तस्य न विधते ॥ ६॥ पुत्रार्थी लभते पुत्रं भार्यार्थी लभते प्रियाम् । भ्रष्टराज्यो लभेद्राज्यं धनं भ्रष्टधनो लभेत् ॥ ७॥ कारागारे विपद्ग्रस्तः स्तोत्रेनानेन मुच्यते । रोगात्प्रमुच्यते रोगी वर्ष श्रुत्वा च संयतः ॥ ८॥ इति ब्रह्मावैवर्ते नारायणकृतं श्रीकृष्णस्तोत्रम् ।brahmavaivartapurANa brahmakhaNDam adhyAya 3 shloka 10-17