अक्षर आकार:

श्रीकृष्णस्तोत्रम् श्रीमहादेवकृतम्

Shri Krishna Stotra Shri Mahadevakrita

श्रीकृष्णस्तोत्रम् श्रीमहादेवकृतम्

श्रीमहादेव उवाच - परं ब्रह्म परं धाम परं ज्योतिः सनातनम् । निर्लिप्तं परमात्मानं नमाम्यखिलकारणम् ॥ १॥ स्थूलात्स्थूलतमं देवं सूक्ष्मात्सूक्ष्मतमं परम् । सर्वदृश्यमदृश्यं च स्वेच्छाचारं नमाम्यहम् ॥ २॥ साकारं च निराकारं सगुणं निर्गुणं प्रभुम् । सर्वाधारं च सर्वं च स्वेच्छारूपं नमाम्यहम् ॥ ३॥ अतीव कमनीयं च रूपं निरुपमं विभुम् । करालरूपमत्यन्तं बिभ्रतं प्रणमाम्यहम् ॥ ४॥ कर्मणः कर्मरूपं तं साक्षिणं सर्वकर्मणः । फलं च फलदातारं सर्वरूपं नमाम्यहम् ॥ ५॥ स्रष्टा पाता च संहर्ता कलया मूर्तिभेदतः । नानामूर्तिः कलांशेन यः पुमांस्तं नमाम्यहम् ॥ ६॥ स्वयं प्रकृतिरूपश्च मायया च स्वयं पुमान् । तयोः परं स्वयं शश्वत्तन्नमामि परात्परम् ॥ ७॥ स्त्रीपुन्नपुंसकं रूपं यो बिभर्ति स्वमायया । स्वयं माया स्वयं मायी यो देवस्तं नमाम्यहम् ॥ ८॥ तारकं सर्वदुःखानां सर्वकारणकारणम् । धारकं सर्वविश्वानां सर्वबीजं नमाम्यहम् ॥ ९॥ तेजस्विनां रविर्यो हि सर्वजातिषु वाडवः । नक्षत्राणां च यश्चन्द्रस्तं नमामि जगत्प्रभुम् ॥ १०॥ रुद्राणां वैष्णवानां च ज्ञानिनां यो हि शङ्करः । नागानां यो हि शेषश्च तं नमामि जगत्पतिम् ॥ ११॥ प्रजापतीनां यो ब्रह्मा सिद्धानां कपिलः स्वयम् । सनत्कुमारो मुनिषु तं नमामि जगद्गुरुम् ॥ १२॥ देवानां यो हि विष्णुश्च देवीनां प्रकृतिः स्वयम् । स्वायम्भुवो मनूनां यो मानवेषु वैष्णवः । नारीणां शतरूपा च बहुरूपं नमाम्यहम् ॥ १३॥ ऋतूनां यो वसन्तश्च मासानां मार्गशीर्षकः । एकादशी तिथीनां च नमाम्यखिलरूपिणम् ॥ १४॥ सागरः सरितां यश्च पर्वतानां हिमालयः । वसुन्धरा सहिष्णूनां तं सर्वं प्रणमाम्यहम् ॥ १५॥ पत्राणां तुलसीपत्रं दारुरूपेषु चन्दनम् । वृक्षाणां कल्पवृक्षो यस्तं नमामि जगत्पतिम् ॥ १६॥ पुष्पाणां पारिजातश्च सस्यानां धान्यमेव च । अमृतं भक्ष्यवस्तुनां नानारूपं नमाम्यहम् ॥ १७॥ ऐरावतो गजेन्द्राणां वैनतेयश्च पक्षिणाम् । कामधेनुश्च धेनूनां सर्वरूपं नमाम्यहम् ॥ १८॥ तैजसानां सुवर्णं च धान्यानां यव एव च । यः केसरी पशूनां च वररूपं नमाम्यहम् ॥ १९॥ यक्षाणां च कुबेरो यो ग्रहाणां च बृहस्पतिः । दिक्पालानां महेन्द्रश्च तं नमामि परं वरम् ॥ २०॥ वेदसङ्घश्च शास्त्राणां पण्डितानां सरस्वती । अक्षराणामकारो यस्तं प्रधानं नमाम्यहम् ॥ २१॥ मन्त्राणां विष्णुमन्त्रश्च तीर्थानां जाह्नवी स्वयम् । इन्द्रियाणां मनो यो हि सर्वश्रेष्ठं नमाम्यहम् ॥ २२॥ सुदर्शनं च शस्त्राणां व्याधिनां वैष्णवो ज्वरः । तेजसां ब्रह्मतेजश्च वरेण्यं तं नमाम्यहम् ॥ २३॥ बलं यो वै बलवतां मनो वै शीघ्रगामिनाम् । कालः कलयतां यो हि तं नमामि विलक्षणम् ॥ २४॥ ज्ञानदाता गुरूणां च मातृरूपश्च बन्धुषु । मित्रेषु जन्मदाता यस्तं सारं प्रणमाम्यहम् ॥ २५॥ शिल्पिनां विश्वकर्मा यः कामदेवश्च रूपिणाम् । पतिव्रता च पत्नीनां नमस्यं तं नमाम्यहम् ॥ २६॥ प्रियेषु पुत्ररूपो यो नृपरूपो नरेषु च । शालग्रामश्च यन्त्राणां तं विशिष्टं नमाम्यहम् ॥ २७॥ धर्मः कल्याणबीजानां वेदानां सामवेदकः । धर्माणां सत्यरूपो यो विशिष्टं तं नमाम्यहम् ॥ २८॥ जले शैत्यस्वरूपो यो गन्धरूपश्च भूमिषु । शब्दरूपश्च गगने तं प्रणम्यं नमाम्यहम् ॥ २९॥ क्रतूनां राजसूयो यो गायत्री छन्दसां च यः । गन्धर्वाणां चित्ररथस्तं गरिष्ठं नमाम्यहम् ॥ ३०॥ क्षीरस्वरूपो गव्यानां पवित्राणां च पावकः । पुण्यदानां च यः स्तोत्रं तं नमामि शुभप्रदम् ॥ ३१॥ तृणानां कुशरूपो यो व्याधिरूपश्च वैरिणाम् । गुणानां शान्तरूपो यश्चित्ररूपं नमाम्यहम् ॥ ३२॥ तेजोरूपो ज्ञानरूपः सर्वरूपश्च यो महान् । सर्वानिर्वचनीयं च तं नमामि स्वयं विभुम् ॥ ३३॥ सर्वाधारेषु यो वायुर्यथाऽऽत्मा नित्यरूपिणाम् । आकाशो व्यापकानां यो व्यापकं तं नमाम्यहम् ॥ ३४॥ वेदानिवर्चनीयं यन्न स्तोतुं पण्डितः क्षमः । यदनिर्वचनीयं च को वा तत्स्तोतुमीश्वरः । ३५॥ वेदा न शक्ता यं स्तोतुं जडीभूता सरस्वती । तं च वाङ्मनसापारं को विद्वान्स्तोतुमीश्वरः ॥ ३६॥ शुद्धतेजस्स्वरूपं च भक्ताऽनुग्रहविग्रहम् । अतीव कमनीयं च श्यामरूपं नमाम्यहम् ॥ ३७॥ द्विभुजं मुरलीवक्त्रं किशोरं सस्मितं मुदा । शश्वद्गोपाङ्गनाभिश्च वीक्ष्यमाणं नमाम्यहम् ॥ ३८॥ राधया दत्तताम्बूलं भुक्तवन्तं मनोहरम् । रत्नसिंहासनस्थं च तमीशं प्रणमाम्यहम् ॥ ३९॥ रत्नभूषणभूषाढ्यं सेवितं श्वेतचामरैः । पार्षदप्रवरैर्गोपकुमारैस्तं नमाम्यहम् ॥ ४०॥ वृन्दावनान्तरे रम्ये रासोल्लाससमुत्सुकम् । रासमण्डलमध्यस्थं नमामि रसिकेश्वरम् ॥ ४१॥ शतश‍ृङ्गे महाशैले गोलोके रत्नपर्वते । विरजापुलिने रम्ये प्रणमामि विहारिणम् ॥ ४२॥ परिपूर्णतमं शान्तं राधाकान्तं मनोहरम् । सत्यं ब्रह्मस्वरूपं च नित्यं कृष्णं नमाम्यहम् ॥ ४३॥ ॥ फलश्रुतिः ॥ श्रीकृष्णस्य स्तोत्रमिदं त्रिसन्ध्यं यः पठेन्नरः । धर्मार्थकाममोक्षाणां स दाता भारते भवेत् ॥ ४४॥ हरिदास्यं हरौ भक्तिं लभेत्स्तोत्रप्रसादतः । इह लोके जगत्पूज्यो विष्णुतुल्यो भवेद्ध्रुवम् ॥ ४५॥ सर्वसिद्धेश्वरः शान्तोऽप्यन्ते याति हरेः पदम् । तेजसा यशसा भाति यथा सूर्यो महीतले ॥ ४६॥ जीवन्मुक्तः कृष्णभक्तः स भवेन्नात्र संशयः । अरोगी गुणवान्विद्वान्पुत्रवान्धनवान्सदा ॥ ४७॥ षडभिज्ञो दशबलो मनोमायी भवेद्ध्रुवम् । सर्वज्ञः सर्वदश्चैव स दाता सर्वसम्पदाम् ॥ ४८॥ कल्पवृक्षसमः शश्वद्भवेत्कृष्णप्रसादतः । इत्येवं कथितं स्तोत्रं वत्स त्वं गच्छ पुष्करम् ॥ ४९॥ तत्र कृत्वा मन्त्रसिद्धिं पश्चात्प्राप्स्यसि वाञ्छितम् । त्रिस्सप्तकृत्वो निर्भूपां कुरु पृथ्वीं यथासुखम् । ममाऽऽशिषा मुनिश्रेष्ठ श्रीकृष्णस्य प्रसादतः ॥ ५०॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे स्तवप्रदानं नाम द्वात्रिंशतमोऽध्याये श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥