श्रीकृष्णस्तोत्रं ब्रह्मवैवर्तपुराणे धर्मकृतम्
श्रीधर्म उवाच । कृष्णं विष्णुं वासुदेवं परमात्मानमीश्वरम् । गोविन्दं पर्मानन्दमेकमक्षरमच्युतम् ॥ १॥ गोपेश्वरं च गोपीशं गोपं गोरक्षकं विभुम् । गवामीशं च गोष्ठस्थं गोवत्सपुच्छधारिण्म् ॥ २॥ गोगोपगोपीमध्यस्थं प्रधानं पुरुषोत्तमम् । वन्देऽनवद्धमनघं श्यामं शान्तं मनोहरम् ॥ ३॥ इत्युच्चार्य समुत्तिष्ठन् रत्नसिंहासने वरे । ब्रह्मविष्णुमहेशांस्तान्संभाष्य स उवास ह ॥ ४॥ चतुर्विशतिनामानि धर्मवक्त्रोद्गतानि च । यः पठेत्प्रातरुत्थाय स सुखी सर्वतो जयी ॥ ५॥ मृत्युकाले हरेनमि तस्य साध्यं भवेद्ध्रुवम् । स यात्यन्ते हरेः स्थानं हरिदास्यं भवेद्ध्रुवम् ॥ ६॥ नित्यं धर्मस्तं घटते नाधर्मे तद्रतिर्भवेत् । चतुर्वर्गफलं तस्य शश्वत्करगतं भवेत् ॥ ७॥ तं दृष्ट्वा सर्वपापानि पलायन्ते भयेन च । भयानि चैव दुःखानि वैनतेयमिवोरेगाः ॥ ८॥ इति ब्रह्मावैवर्ते धर्मकृतं श्रीकृष्णस्तोत्रम् ।brahmavaivartapurANa brahmakhaNDam adhyAya 3 shloka 45-52