अक्षर आकार:

श्रीकृष्णस्तवराज

shrIkRiShNastavarAja

श्रीकृष्णस्तवराज

श्रीगणेशाय नमः । श्रीमहादेव उवाच । श‍ृणु देवि प्रवक्ष्यामि स्तोत्रं परमदुर्लभम् । यज्ज्ञात्वा न पुनर्गच्छेन्नरो निरययातनाम् ॥ १॥ नारदाय च यत्प्रोक्तं ब्रह्मपुत्रेण धीमता । सनत्कुमारेण पुरा योगीन्द्रगुरुवर्त्मना ॥ २॥ श्रीनारद उवाच । प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने । तवांघ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम् ॥ ३॥ अज प्रसीद भगवन्नमितद्युतिपञ्जर । अप्रमेयं प्रसीदास्मद्दुःखहन्पुरुषोत्तम ॥ ४॥ स्वसंवेद्य प्रसीदास्मदानन्दात्मन्ननामय । अचिन्त्यसार विश्वात्मन्प्रसीद परमेश्वर ॥ ५॥ प्रसीद तुङ्गतुङ्गानां प्रसीद शिवशोभन । प्रसीद गुणगम्भीर गम्भीराणां महाद्युते ॥ ६॥ प्रसीद व्यक्तं विस्तीर्णं विस्तीर्णानामगोचर । प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम् ॥ ७॥ गुरोर्गरीयः सर्वेश प्रसीदानन्त देहिनाम् । जय माधव मायात्मन् जय शाश्वतशङ्खभृत् ॥ ८॥ जय शङ्खधर श्रीमन् जय नन्दकनन्दन । जय चक्रगदापाणे जय देव जनार्दन ॥ ९॥ जय रत्नवराबद्धकिरीटाकान्तमस्तक । जय पक्षिपतिच्छायानिरुद्धार्ककरारुण ॥ १०॥ नमस्ते नरकाराते नमस्ते मधुसूदन । नमस्ते ललितापाङ्ग नमस्ते नरकान्तक ॥ ११॥ नमः पापहरेशान नमः सर्पभवापह । नमः सम्भूतसर्वात्मन्नमः सम्भृतकौस्तुभ ॥ १२॥ नमस्ते नयनातीत नमस्ते भयहारक । नमो विभिन्नवेषाय नमः श्रुतिपथातिग ॥ १३॥ नमश्चिन्मूर्तिभेदेन सर्गस्थित्यन्तहेतवे । विष्णवे त्रिदशारातिजिष्णवे परमात्मने ॥ १४॥ चक्रभिन्नारिचक्राय चक्रिणे चक्रवल्लभ । विश्वाय विश्ववन्द्याय विश्वभूतानुवर्तिने ॥ १५॥ नमोऽस्तु योगिध्येयात्मन्नमोऽस्त्वध्यात्मिरूपिणे । भक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने ॥ १६॥ पूजनं हवनं चेज्या ध्यानं पश्चान्नमस्क्रिया । देवेश कर्म सर्वं मे भवेदाराधनं तव ॥ १७॥ इति हवनजपार्चाभेदतो विष्णुपूजा- नियतहृदयकर्मा यस्तु मन्त्री चिराय । स खलु सकलकामान् प्राप्य कृष्णान्तरात्मा जननमृतिविमुक्तोऽत्युत्तमां भक्तिमेति ॥ १८॥ गोगोपगोपिकावीतं गोपालं गोषु गोप्रदम् । गोपैरीड्यं गोसहस्रैर्नौमि गोकुलनायकम् ॥ १९॥ प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् । धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमः ॥ २०॥ ॥ इति श्रीनारदपञ्चरात्रे श्रीकृष्णस्तवराजः सम्पूर्णः ॥