अक्षर आकार:

श्रीकृष्णद्वादशनामस्तोत्रम्

shrIkRiShNadvAdashanAmastotram

श्रीकृष्णद्वादशनामस्तोत्रम्

श्री गणेशाय नमः । श्रीकृष्ण उवाच । किं ते नामसहस्रेण विज्ञातेन तवाऽर्जुन । तानि नामानि विज्ञाय नरः पापैः प्रमुच्यते ॥ १॥ प्रथमं तु हरिं विन्द्याद् द्वितीयं केशवं तथा । तृतीयं पद्मनाभं च चतुर्थं वामनं स्मरेत् ॥ २॥ पञ्चमं वेदगर्भं तु षष्ठं च मधुसूदनम् । सप्तमं वासुदेवं च वराहं चाऽष्टमं तथा ॥ ३॥ नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् । कृष्णमेकादशं विन्द्याद् द्वादशं श्रीधरं तथा ॥ ४॥ एतानि द्वादश नामानि विष्णुप्रोक्ते विधीयते । सायं-प्रातः पठेन्नित्यं तस्य पुण्यफलं श‍ृणु ॥ ५॥ चान्द्रायण-सहस्राणि कन्यादानशतानि च । अश्वमेधसहस्राणि फलं प्राप्नोत्यसंशयः ॥ ६॥ अमायां पौर्णमास्यां च द्वादश्यां तु विशेषतः । प्रातःकाले पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ ७॥ ॥ इति श्रीमन्महाभारतेऽरण्यपर्वणि कृष्णद्वादशनामस्तोत्रं सम्पूर्णम् ॥