अक्षर आकार:

श्रीकृष्णाष्टोत्तरशतनामावली प्रेमामृतरसायनाख्या

premAmRitarasAyanAkhyA kRiShNAShTottarashatanAmAvaliH

श्रीकृष्णाष्टोत्तरशतनामावली प्रेमामृतरसायनाख्या

॥ श्रीः ॥ ॐ श्रीकृष्णाय नमः । ॐ कृष्णेन्दिरानन्दाय नमः । ॐ गोविन्दाय नमः । ॐ गोकुलोत्सवाय नमः । ॐ गोपालाय नमः । ५ ॐ गोपगोपीशाय नमः । ॐ वल्लभेन्द्राय नमः । ॐ व्रजेश्वराय नमः । ॐ प्रत्यहन्नूतनाय नमः । ॐ तरुणानन्दविग्रहाय नमः । १० ॐ आनन्दैकरसास्वादिने नमः । ॐ सन्तोषाक्षयकोशभुवे नमः । ॐ आभीरिका नवानङ्गाय नमः । ॐ परमानन्दकन्दलाय नमः । ॐ वृन्दावनकलानाथाय नमः । १५ ॐ व्रजानन्दनवांकुराय नमः । ॐ नयनानन्दकुसुमाय नमः । ॐ व्रजभाग्यफलोदयाय नमः । ॐ प्रतिक्षणातिसुन्दराय नमः । ॐ मोहनाय नमः । २० ॐ मधुराकृतये नमः । ॐ सुधानिर्यासनिचयसुन्दराय नमः । ॐ श्यामलाकृतये नमः । ॐ नवयौवनसंभिन्नप्रेमामृतरसार्णवाय नमः । ॐ इन्द्रनीलमणिस्वच्छाय नमः । २५ ॐ दलितांजनचिक्कणाय नमः । ॐ इन्दीवरसुखस्पर्शाय नमः । ॐ नीरदस्निग्धसुन्दराय नमः । ॐ कर्पूरागरुकस्तूरीकुंकुमार्द्रांगधूसराय नमः । ॐ सुकुंचितकचन्यस्तलसच्छारुशिखण्डकाय नमः । ३० ॐ मत्तालिविभ्रमत्पारिजातपुष्पावतंसकाय नमः । ॐ आनन्देन्दुजितानन्दपूर्णशारदचन्द्रमसे नमः । ॐ श्रीमल्ललाटपाटीरतिलकालकरंजिताय नमः । ॐ नीलोन्नतभ्रूविलासमदालसविलोचनाय नमः । ॐ आकर्णरक्तसौन्दर्यलहरीदृष्टिमन्थराय नमः । ३५ ॐ घूर्णायमाननयन साचीक्षणविचक्षणाय नमः । ॐ अपांगेङ्गितसौभाग्यतरलीकृतलोचनाय नमः । ॐ ईषन्मीलितलोलाक्षाय नमः । ॐ सुनासापुटसुन्दराय नमः । ॐ गंडप्रान्तोल्लसत्स्वर्णमकराकृतिकुण्डलाय नमः । ४० ॐ प्रसन्नानन्द वदनाय नमः । ॐ जगदाह्लादकारकाय नमः । ॐ सुस्मितामृतलावण्य प्रकाशीकृतदिङ्मुखाय नमः । ॐ सिन्दूरारुणसुस्निग्धमाणिक्यदशनच्छदाय नमः । ॐ पीयूषाधिकमाधुर्यसूक्तिश्रुतिरसायनाय नमः । ४५ ॐ त्रिभंगिललिताय नमः । ॐ तिर्यक्ग्रीवाय नमः । ॐ त्रैलोक्यमोहनाय नमः । ॐ कुंचिताधरसंसक्तकूजत्वेणुविशारदाय नमः । ॐ कंकणाङ्गदकेयूरमुद्रिकादिलसत्कराय नमः । ५० ॐ स्वर्णसूत्रपुटन्यस्तकौस्तुभामुक्तकंधराय नमः । ॐ मुक्ताहारोल्लसद्वक्षस्पुरच्छ्रीवक्षलंछनाय नमः । ॐ आपीनहृदयाय नमः । ॐ नीपमालावते नमः । ॐ बन्धुरोदराय नमः । ५५ ॐ संवीतपीतवसनाय नमः । ॐ रशनाविलसत्कटये नमः । ॐ अन्तरीणकटीबद्धप्रपदान्दोलितांचलाय नमः । ॐ अरविन्दपदद्वन्द्व कलक्वणितनूपुराय नमः । ॐ बन्दूकारुणमाधुर्य-सुकुमारपदांबुजाय नमः । ६० ॐ नखचन्द्रजिताशेपूर्णशारदचन्द्रमसे नमः । ॐ ध्वजवज्रंकुशांभोजराजच्चरणपल्लवाय नमः । ॐ त्रैलोक्याद्भुतसौन्दर्यपरीपाकमनोहराय नमः । ॐ साक्षात्केलिकलामूर्तये नमः । ॐ परिहासरसार्णवाय नमः । ६५ ॐ यमुनोपवनश्रेणीविलासिने नमः । ॐ व्रजनायकाय नमः । ॐ गोपाङ्गनाजनासक्ताय नमः । ॐ वृन्दावनपुरन्दराय नमः । ॐ आभीरनगरीप्राणनायकाय नमः । ७० ॐ कामशेखराय नमः । ॐ यमुनानाविकाय नमः । ॐ गोपीपारावारकृतोद्यमाय नमः । ॐ राधावरोधनिरताय नमः । ॐ कदंबवनमन्दिराय नमः । ७५ ॐ व्रजयोषित्सदाहृद्याय नमः । ॐ गोपीलोचनतारकाय नमः । ॐ यमुनानन्दरसिकाय नमः । ॐ पूर्णानन्दकुतूहलिने नमः । ॐ गोपिकाकुचकस्तूरीपङ्किलाय नमः । ८० ॐ केलिलालसाय नमः । ॐ अलक्षितकुटीरस्थाय नमः । ॐ राधासर्वस्वसंपुटाय नमः । ॐ वल्लवीवदनांभोजमधुमत्तमधुव्रताय नमः । ॐ निगूढरसविदे नमः । ८५ ॐ गोपीचित्ताह्लादकलानिधये नमः । ॐ कालिन्दीपुलिनानन्दिने नमः । ॐ क्रीडाताण्डवपण्डिताय नमः । ॐ आभीरिकानवानंगरंगसिन्धुसुधाकराय नमः । ॐ विदग्धगोपवनिताचित्ताकूतविनोदकाय नमः । ९० ॐ नानोपायनपाणिस्थगोपनारीगणावृताय नमः । ॐ वांछाकल्पतरवे नमः । ॐ कोटिकन्दर्पलावण्याय नमः । ॐ कोटीन्दुतुलितद्युतये नमः । ॐ जगत्रयमनोमोहकराय नमः । ९५ ॐ मन्मथमन्मथाय नमः । ॐ गोपीसीमन्तिनीशश्वद्भावापेक्षपरायणाय नमः । ॐ नवीनमधुरस्नेहप्रेयसीप्रेमसंचयाय नमः । ॐ गोपीमनोरथाक्रान्ताय नमः । ॐ नाट्यलीलाविशारदाय नमः । १०० ॐ प्रत्यंगरभसावेशप्रमदाप्राण्वल्लभाय नमः । ॐ रासोल्लासमदोन्मत्ताय नमः । ॐ राधिकारतिलंपटाय नमः । ॐ खेलालीलापरिश्रान्तस्वेदांकुरचिताय नमः । ॐ गोपिका कामुकाय नमः । १०५ ॐ श्रीमते नमः । ॐ मलयानिलसेविताय नमः । ॐ सकृत्प्रपन्नजनतासंरक्षण्धुरन्धराय नमः । ॐ सुप्रसन्नाय नमः । ॐ गोपीजनवल्लभाय नमः । ॥ इति श्रीवल्लभाचार्यविरचितं प्रेमामृतरसायनाख्याष्टोत्तरशत नामावलिः ॥