अक्षर आकार:

श्रीकोमलाम्बासमेत शार्ङ्गपाणिस्तुतिः

Shri Komalambasameta Sharngapanistutih

श्रीकोमलाम्बासमेत शार्ङ्गपाणिस्तुतिः

(कुम्भकोणस्थले) त्रयस्त्रिंशत्कोटि त्रिदशगणसंसेवितपदः सह श्रीभूमिभ्यां कनकनलिनीरोधसि वसन् । अमन्दानानन्दान् स्वयमवकिरन् सेवकदृशोः मुकुन्दः शार्ङ्गास्त्रो मनसि मम नित्यं विहरतु ॥ १॥ कुशलमवनतानां कुम्भकोणस्थले यः कलयति निवसन् वै काञ्चनाब्जिन्युपान्ते । कुलिशधरमुखेभ्यः कोमलाम्बासहायः स भवतु मम चित्ते सन्ततं शार्ङ्गधन्वा ॥ २॥ त्रिंशत्त्रकोटि वसुरुद्रदिवाकरादि देवादिदेवगणसम्मतसेव्यमानम् । अम्भोजसम्भवचतुर्मुखगीयमानं वन्दे शयानमिह भोगिनि शार्ङ्गपाणिम् ॥ ३॥ उत्तानशायिनमुदारकिरीटचूडं उत्फुल्लपद्मनयनं ह्युपधानबाहुम् । आजानुबाहुममलं फणिराजतल्पे शार्ङ्गेशमच्युतमहं प्रणतोऽस्म नित्यम् ॥ ४॥ सकलभुवनमाता सागराधीशजाता प्रणमदमरकामा भास्करक्षेत्रधामा । शकलितभवमूला शार्ङ्गधन्वानुकूला प्रविमलमुखबिम्बा पातु मां कोमलाम्बा ॥ ५॥ मथितादमृताम्भोधेरवतारमवाप्य या । जगतामभयं चक्रे तनुतां कोमला श्रियम् ॥ ६॥ इति कुम्भकोणस्थले श्रीकोमलाम्बासमेत शार्ङ्गिपाणिस्तुतिः समाप्ता ।