अक्षर आकार:

केशवादिचतुर्विंशत्यवतारस्तोत्रम्

Keshavadichaturvimshatyavatarastotram

केशवादिचतुर्विंशत्यवतारस्तोत्रम्

अधरं दक्षिणं हस्तमारभ्यैव प्रदक्षिणम् । मूर्तिभेदान् हरेर्वक्ष्ये भवबन्धविमुक्तये ॥ श्रीमत्पङ्कज-शङ्ख-चक्रगदया सम्भूषिते केशवे शङ्खाम्भोज-गदा-सुदर्शनधरे नारायणे सर्वदा । भक्तिर्मेऽस्तु गदाऽरि-शङ्खजलजैर्युक्ता दृढा माधवे गोविन्दे वर-चक्र-धारिणि-गदाफुल्लाब्ज-शङ्खान्विते ॥ १॥ कौमोदक्यरिविन्द-शङ्खविदधच्चक्रं च विष्णुमुदा चक्राङ्को मधुसूदनो दधदसौ शङ्खाऽब्ज--कौमोदकी । नित्यं पद्म-गदारि-शङ्खसहितश्चित्ते मम त्रिक्रमो युक्तास्तिष्ठतु शङ्ख-चक्र-गदया पद्मी सदा वामनः ॥ २॥ वन्दे श्रीधरमब्ज-चक्र-गदया शङ्खेन चाऽलङ्कृतो नित्यं पाहि गदारि-पङ्कजदरान् विभ्रदृषीकेश माम् । शङ्खाऽब्जारि-गदाधराद्य कुरु मे श्रीपद्मनाभाभयं श्रीदामोदरमब्ज-शङ्ख-गदिनं सारिं प्रपन्नोऽस्म्यहम् ॥ ३॥ कौमोदक्युरु-शङ्ख-पद्मसदरिः सङ्कर्षणः शर्मदो भूयात् सोऽग्न्य-गदाधरारिकमलः श्रीवासुदेवोऽस्तु मे । प्रद्युम्नश्च रथाङ्गकं जगदया युक्तोऽब्जपाणिर्मुदे चक्री चारुगदी सशङ्खकमलो देवोऽनिरुद्धस्तु मे ॥ ४॥ देवेशः पुरुषोत्तमोऽरिकमलः शङ्खो गदी चिद्वपु- र्बिभ्त्-पद्म-गदोरु-शङ्खमरिणा साकं सदाऽधोक्षजः । चक्रा-म्भोज-गदादराङ्ति-चतुर्बाहुः सुखं नृहरि- र्दद्यादद्य ममाऽच्युतः पृथुगदा-पद्मारिशङ्खी परम् ॥ ५॥ साऽब्जारिः स जनार्दनोऽस्तु सदयः शङ्खी गदी मे सदा मूर्ध्नोपेन्द्रमहं नतोऽस्मि सदरं युस्तं गदार्यम्बुजैः । वन्दे शङ्ख-सुदर्शनाम्बुज-गदापाणिं हरिं मुक्तये कृष्णं शङ्ख-गदा-ऽब्ज-चक्रिणमलं भक्त्या समभ्यर्चये ॥ ६॥ वादिराज -यति -प्रोक्ते -केशवादि -स्तुतिं नरः । पठेत् सर्वेष्टमाप्नोति सर्वानिष्ट-निवृत्तिमान् ॥ ७॥ इति श्रीवादिराजकृत-केशवादिचतुर्विंशत्यवतारस्तोत्रम् ।