अक्षर आकार:

कल्किस्तवः २

Kalkistavah 2

कल्किस्तवः २

उद्यत्करकरवालः शकतिमिरध्वंसने महानिपुणः । कल्किर्हरिर्वः पायादपायतः कलिनिशान्तोत्थः ॥ १॥ यवनीनयनाम्बुधोरणीभिर्धरिणीनामपनीय तापवह्निम् । सुकृतद्रुमसेकमाचरन्तं धृतकल्कं प्रणमामि निर्विकल्पम् ॥ २॥ प्रेङ्खद्वाजितरङ्गमुन्मदगजग्राहप्रगल्भं भट- व्यावल्गत्स्फुटपुण्डरीकनिलयं डिण्डीरपिण्डावलिम् । म्लेच्छानीकमहार्णवं सुविपुलं सङ्ग्रामकल्पावधौ यश्चौर्वाग्निरिवाभवद्यतु स वः कल्पानि कल्की हरिः ॥ ३॥ इति कल्किस्तवः २ सम्पूर्णः ।