अक्षर आकार:

ककारादिश्रीकृष्णसहस्रनामावलिः

kakArAdishrIkRRiShNasahasranAmAvaliH

ककारादिश्रीकृष्णसहस्रनामावलिः

ॐ अस्य श्रीपुराणपुरुषोत्तमश्रीकृष्णकादिसहस्रनाममन्त्रस्य नारद ऋषिः अनुष्टुप्छन्दः, सर्वात्मस्वरूपी श्रीपरमात्मा देवता । ॐ इति बीजं, नम इति शक्तिः, कृष्णायेति कीलकं, धर्मार्थकाममोक्षार्थे श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ॐ कालात्मेत्यङ्गुष्ठाभ्यां नमः । ॐ कीर्तिवर्द्धन इति तर्जनीभ्यां नमः । ॐ कूटस्थसाक्षीति मध्यमाभ्यां नमः । ॐ कैवल्यज्ञानसाधन इति अनामिकाभ्यां नमः । ॐ कौस्तुभोद्भासितोरस्क इति कनिष्ठकाभ्यां नमः । ॐ कन्दर्पज्वरनाशन इति करतलकरपृष्ठाभ्यां नमः ॥ अथ अङ्गन्यासः । ॐ कालात्मेति हृदयाय नमः । ॐ कीर्तिवर्धन इति शिरसे स्वाहा । ॐ कूटस्थसाक्षीति शिखायै वषट् । ॐ कैवल्यज्ञानसाधन इति कवचाय हुम् । ॐ कौस्तुभोद्भासितोरस्क इति नेत्रत्रयाय वौषट् । ॐ कन्दर्पज्वरनाशन इत्यस्त्राय फट् । अथ ध्यानम् । वन्दे कृष्णं कृपालुं कलिकुलदलनं केशवं कंसशत्रुं धर्मिष्ठं ब्रह्मनिष्ठं द्विजवरवरदं कालमायातिरिक्तम् । कालिन्दीकेलिसक्तं कुवलयनयनं कुण्डलोद्भासितास्यं कालातीतस्वधामाश्रितनिजयुवतीवल्लभं कालकालम् ॥ ॐ कृष्णाय नमः । कृष्णात्मकाय । कृष्णस्वरूपाय । कृष्णनामधृते । कृष्णाङ्गाय । कृष्णदैवत्याय । कृष्णारक्तविलोचनाय । कृष्णाश्रयाय । कृष्णवर्त्मने । कृष्णालक्ताभिरक्षकाय । कृष्णेशप्रीतिजनकाय । कृष्णेशप्रियकारकाय । कृष्णेशारिष्टसंहर्त्रे । कृष्णेशप्राणवल्लभाय । कृष्णेशानन्दजनकाय । कृष्णेशायुर्विवर्धनाय । कृष्णेशारिसमूहघ्नाय । कृष्णेशाभीष्टसिद्धिदाय । कृष्णाधीशाय । कृष्णकेशाय नमः ॥ २० ॐ कृष्णानन्दविवर्धनाय नमः । कृष्णागरुसुगन्धाढ्याय । कृष्णागरुसुगन्धविदे । कृष्णागरुविवेकज्ञाय । कृष्णागरुविलेपनाय । कृतज्ञाय । कृतकृत्यात्मने । कृपासिन्धवे । कृपाकराय । कृष्णानन्दैकवरदाय । कृष्णानन्दपदाश्रयाय । कमलावल्लभाकाराय । कलिघ्नाय । कमलापतये । कमलानन्दसम्पन्नाय । कमलासेविताकृतये । कमलामानसोल्लासिने । कमलामानदायकाय । कमलालङ्कृताकाराय । कमलाश्रितविग्रहाय नमः ॥ ४० ॐ कमलामुखपद्मार्काय नमः । कमलाकरपूजिताय । कमलाकरमध्यस्थाय । कमलाकरतोषिताय । कमलाकरसंसेव्याय । कमलाकरभूषिताय । कमलाकरभावज्ञाय । कमलाकरसंयुताय । कमलाकरपार्श्वस्थाय । कमलाकररूपवते । कमलाकरशोभाढ्याय । कमलाकरपङ्कजाय । कमलाकरपापघ्नाय । कमलाकरपुष्टिकृते । कमलारूपसौभाग्यवर्धनाय । कमलेक्षणाय । कमलाकलिताङ्घ्र्यब्जाय । कमलाकलिताकृतये । कमलाहृदयानन्दवर्धनाय । कमलाप्रियाय नमः ॥ ६० ॐ कमलाचलचित्तात्मने नमः । कमलालङ्कृताकृतये । कमलाचलभावज्ञाय । कमलालिङ्गिताकृतये । कमलामलनेत्रश्रिये । कमलाचलमानसाय । कमलापरमानन्दवर्धनाय । कमलाननाय । कमलानन्दसौभाग्यवर्धनाय । कमलाश्रयाय । कमलाविलसत्पाणये । कमलामललोचनाय । कमलामलफालश्रिये । कमलाकरपल्लवाय । कमलेशाय । कमलभुवे । कमलानन्ददायकाय । कमलोद्भवभीतिघ्नाय । कमलोद्भवसंस्तुताय । कमलाकरपाशाढ्याय नमः ॥ ८० ॐ कमलोद्भवपालकाय नमः । कमलासनसंसेव्याय । कमलासनसंस्थिताय । कमलासनरोगघ्नाय । कमलासनपापघ्ने । कमलोदरमध्यस्थाय । कमलोदरदीपनाय । कमलोदरसम्पन्नाय । कमलोदरसुन्दराय । कनकालङ्कृताकाराय । कनकालङ्कृताम्बराय । कनकालङ्कृतागाराय । कनकालङ्कृतासनाय । कनकालङ्कृतास्यश्रिये । कनकालङ्कृतास्पदाय । कनकालङ्कृताङ्घ्र्यब्जाय । कनकालङ्कृतोदराय । कनकाम्बरशोभाढ्याय । कनकाम्बरभूषणाय । कनकोत्तमभालश्रिये नमः ॥ १०० ॐ कनकोत्तमरूपधृषे नमः । कनकाघारमध्यस्थाय । कनकागारकारकाय । कनकाचलमध्यस्थाय । कनकाचलपालकाय । कनकाचलशोभाढ्याय । कनकाचलभूषणाय । कनकैकप्रजाकर्त्रे । कनकैकप्रदायकाय । कलाननाय । कलरवाय । कलस्त्रीपरिवेष्टिताय । कलहंसपरित्रात्रे । कलहंसपराक्रमाय । कलहंससमानश्रिये । कलहंसप्रियङ्कराय । कलहंसस्वभावस्थाय । कलहंसैकमानसाय । कलहंससमारूढाय । कलहंससमप्रभाय नमः ॥ १२० ॐ कलहंसविवेकज्ञाय नमः । कलहंसगतिप्रदाय । कलहंसपरित्रात्रे । कलहंससुखास्पदाय । कलहंसकुलाधीशाय । कलहंसकुलास्पदाय । कलहंसकुलाधाराय । कलहंसकुलेश्वराय । कलहंसकुलाचारिणे । कलहंसकुलप्रियाय । कलहंसकुलत्रात्रे । कलहंसकुलात्मकाय । कवीशाय । कविभावस्थाय । कविनाथाय । कविप्रियाय । कविमानसहंसात्मने । कविवंशविभूषणाय । कविनायकसंसेव्याय । कविनायकपालकाय नमः ॥ १४० ॐ कविवंशैकवरदाय नमः । कविवंशशिरोमणये । कविवंशविवेकज्ञाय । कविवंशप्रबोधकाय । कविवंशपरित्रात्रे । कविवंशप्रभावविदे । कवित्वामृतसंसिद्धाय । कवित्वामृतसागराय । कवित्वाकारसंयुक्ताय । कवित्वाकारपालकाय । कवित्वाद्वैतभावस्थाय । कवित्वाश्रयकारकाय । कवीन्द्रहृदयानन्दिने । कवीन्द्रहृदयास्पदाय । कवीन्द्रहृदयान्तःस्थाय । कवीन्द्रज्ञानदायकाय । कवीन्द्रहृदयाम्भोजप्रकाशैकदिवाकराय । कवीन्द्रहृदयाम्भोजा- ह्लादनैकनिशाकराय । कवीन्द्रहृदयाब्जस्थाय । कवीन्द्रप्रतिबोधकाय नमः ॥ १६० ॐ कवीन्द्रानन्दजनकाय नमः । कवीन्द्राश्रितपङ्कजाय । कविशब्दैकवरदाय । कविशब्दैकदोहनाय । कविशब्दैकभावस्थाय । कविशब्दैककारणाय । कविशब्दैकसंस्तुत्याय । कविश्ब्दैकभूषणाय । कविशब्दैकरसिकाय । कविशब्दविवेकविदे । कवित्वब्रह्मविख्याताय । कवित्वब्रह्मगोचराय । कविवाणीविवेकज्ञाय । कविवाणीविभूषणाय । कविवाणीसुधास्वादिने । कविवाणीसुधाकराय । कविवाणीविवेकस्थाय । कविवाणीविवेकविदे । कविवाणीपरित्रात्रे । कविवाणीविलासवते नमः ॥ १८० ॐ कविशक्तिप्रदात्रे नमः । कविशक्तिप्रवर्तकाय । कविशक्तिसमूहस्थाय । कविशक्तिकलानिधये । कलाकोटिसमायुक्ताय । कलाकोटिसमावृताय । कलाकोटिप्रकाशस्थाय । कलाकोटिप्रवर्तकाय । कलानिधिसमाकाराय । कलानिधिसमन्विताय । कलाकोटिपरित्रात्रे । कलाकोटिप्रवर्धनाय । कलानिधिसुधास्वादिने । कलानिधिसमाश्रिताय । कलङ्करहिताकाराय । कलङ्करहितास्पदाय । कलङ्करहितानन्दाय । कलङ्करहितात्मकाय । कलङ्करहिताभासाय । कलङ्करहितोदयाय नमः ॥ २०० ॐ कलङ्करहितोद्देशाय नमः । कलङ्करहिताननाय । कलङ्करहितश्रीशाय । कलङ्करहितस्तुतये । कलङ्करहितोत्साहाय । कलङ्करहितप्रियाय । कलङ्करहितोच्चाराय । कलङ्करहितेन्दिरयाय । कलङ्करहिताकाराय । कलङ्करहितोत्सवाय । कलङ्काङ्कितदुष्टघ्नाय । कलङ्काङ्कितधर्मघ्ने । कलङ्काङ्कितकर्मारये । कलङ्काङ्कितमार्गहृते । कलङ्काङ्कितदुर्दर्शाय । कलङ्काङ्किततदुस्सहाय । कलङ्काङ्कितदूरस्थाय । कलङ्काङ्कितदूषणाय । कलहोत्पत्तिसंहर्त्रे । कलहोत्पत्तिकृद्रिपवे नमः ॥ २२० ॐ कलहातीतधामस्थाय नमः । कलहातीतनायकाय । कलहातीततत्त्वज्ञाय । कलहातीतवैभवाय । कलहातीतभावस्थाय । कलहातीतसत्तमाय । कलिकालबलातीताय । कलिकालविलोपकाय । कलिकालैकसंहर्त्रे । कलिकालैकदूषणाय । कलिकालकुलध्वंसिने । कलिकालकुलापहाय । कलिकालभयच्छेत्रे । कलिकालमदापहाय । कलिक्लेशविनिर्मुक्ताय । कलिक्लेशविनाशनाय । कलिग्रस्तजनत्रात्रे । कलिग्रस्तनिजार्तिघ्ने । कलिग्रस्तजगन्मित्राय । कलिग्रस्तजगत्पतये नमः ॥ २४० ॐ कलिग्रस्तजगत्त्रात्रे नमः । कलिपाशविनाशनाय । कलिमुक्तिप्रदात्रे (प्रदायकाय) । कलिमुक्तकलेवराय । कलिमुक्तमनोवृत्तये । कलिमुक्तमहामतये । कलिकालमतातीताय । कलिधर्मविलोपकाय । कलिधर्माधिपध्वंसिने । कलिधर्मैकखण्डनाय । कलिधर्माधिपालक्ष्याय । कलिकालविकारघ्ने । कलिकर्मकथातीताय । कलिकर्मकथारिपवे । कलिकष्टैकशमनाय । कलिकष्टविवर्जिताय । कलिघ्नाय । कलिधर्मघ्नाय । कलिधर्माधिकारघ्ने नमः ॥ २६० ॐ कर्मविदे नमः । कर्मकृते । कर्मिणे । कर्मकाण्डैकदोहनाय । कर्मस्थाय । कर्मजनकाय । कर्मिष्ठाय । कर्मसाधनाय । कर्मकर्त्रे । कर्मभर्त्रे । कर्महर्त्रे । कर्मजिते । कर्मजातजगत्त्रात्रे । कर्मजातजगत्पतये । कर्मजातजगन्मित्राय । कर्मजातजगद्गुरवे । कर्मभूतभवच्छत्राय । कर्मम्भूतभवार्तिघ्ने । कमकाण्डपरिज्ञात्रे । कर्मकाण्डप्रवर्तकाय नमः ॥ २८० ॐ कर्मकाण्डपरित्रात्रे नमः । कर्मकाण्डप्रमाणकृते । कर्मकाण्डविवेकज्ञाय । कर्मकाण्डप्रकारकाय । कर्मकाण्डाविवेकस्थाय । कर्मकाण्डैकदोहनाय । कर्मकाण्डरताभीष्टप्रदात्रे । कर्मतत्पराय । कर्मबद्धजगत्त्रात्रे । कर्मबद्धजगद्गुरवे । कर्मबन्धार्तिशमनाय । कर्मबन्धविमोचनाय । कर्मिष्ठद्विजवर्यस्थाय । कर्मिष्ठद्विजवल्लभाय । कर्मिष्ठद्विजजीवात्मने । कर्मिष्ठद्विजजीवनाय । कर्मिष्ठद्विजभावज्ञाय । कर्मिष्ठद्विजपालकाय । कर्मिष्ठद्विजजातिस्थाय । कर्मिष्ठद्विजकामदाय नमः ॥ ३०० ॐ कर्मिष्ठद्विजसंसेव्याय नमः । कर्मिष्ठद्विजपापघ्ने । कर्मिष्ठद्विजबुद्धिस्थाय । कर्मिष्ठद्विजबोधकाय । कर्मिष्ठद्विजभीतिघ्नाय । कर्मिष्ठद्विजमुक्तिदाय । कर्मिष्ठद्विजदोषघ्नाय । कर्मिष्ठद्विजकामदुहे । कर्मिष्ठद्विजसम्पूज्याय । कर्मिष्ठद्विजतारकाय । कर्मिष्ठारिष्टसंहर्त्रे । कर्मिष्ठाभीष्टसिद्धिदाय । कर्मिष्ठादृष्टमध्यस्थाय । कर्मिष्ठादृष्टवर्धनाय । कर्ममूलजगद्धेतवे । कर्ममूलनिकन्दनाय । कर्मबीजपरित्रात्रे । कर्मबीजविवर्धनाय । कर्मद्रुमफलाधीशाय । कर्मद्रुमफलप्रदाय नमः ॥ ३२० ॐ कस्तूरीद्रवलिप्ताङ्गाय नमः । कस्तूरीद्रववल्लभाय । कस्तूरीसौरभग्राहिणे । कस्तूरीमृगवल्लभाय । कस्तूरीतिलकानन्दिने । कस्तूरीतिलकप्रियाय । कस्तूरीतिलकाश्लेषिणे । कस्तूरीतिलकाङ्किताय । कस्तूरीवासनालीनाय । कस्तूरीवासनाप्रियाय । कस्तूरीवासनारूपाय । कस्तूरीवासनात्मकाय । कस्तूरीवासनान्तस्थाय । कस्तूरीवासनास्पदाय । कस्तूरीचन्दनग्राहिणे । कस्तूरीचन्दनार्चिताय । कस्तूरीचन्दनागाराय । कस्तूरीचन्दनान्विताय । कस्तूरीचन्दनाकाराय । कस्तूरिचन्दनासनाय नमः ॥ ३४० ॐ कस्तूरीचर्चितोरस्काय नमः । कस्तूरीचर्विताननाय । कस्तूरीचर्वितश्रीशाय । कस्तूरीचर्चिताम्बराय । कस्तूरीचर्चितास्यश्रिये । कस्तूरीचर्चितप्रियाय । कस्तूरीमोदमुदिताय । कस्तूरीमोदवर्धनाय । कस्तूरीमोददीप्ताङ्गाय । कस्तूरीसुन्दराकृतये । कस्तूरीमोदरसिकाय । कस्तूरीमोदलोलुपाय । कस्तूरीपरमानन्दिने । कस्तूरीपरमेश्वराय । कस्तूरीदानसन्तुष्ठाय । कस्तूरीदानवल्लभाय । कस्तूरीपरमाह्लादाय । कस्तूरीपुष्टिवर्धनाय । कस्तूरीमुदितात्मने । कस्तूरीमुदिताशयाय नमः ॥ ३६० ॐ कदलीवनमध्यस्थाय नमः । कदलीवनपालकाय । कदलीवनसञ्चारिने । कदलीवनसञ्चारिणे । कदलीवनवल्लभाय । कदलीदर्शनानन्दिने । कदलीदर्शनोत्सुकाय । कदलीपल्लवास्वदिने । कदलीपल्लवाश्रयाय । कदलीफलसन्तुष्टाय । कदलीफलदायकाय । कदलीफलसम्पुष्टाय । कदलीफलभोजनाय । कदलीफलवर्याशिने । कदलीफलतोषिताय । कदलीफलमाधुर्यवल्लभाय । कदलीप्रियाय । कपिध्वजसमायुक्ताय । कपिध्वजपरिस्तुताय । कपिध्वजपरित्रात्रे । कपिध्वजसमाश्रिताय नमः ॥ ३८० ॐ कपिध्वजपदान्तस्थाय नमः । कपिध्वजजयप्रदाय । कपिध्वजरथारूढाय । कपिध्वजयशःप्रदाय । कपिध्वजैकपापघ्नाय । कपिध्वजसुखप्रदाय । कपिध्वजारिसंहर्त्रे । कपिध्वजभयापहाय । कपिध्वजमनोऽभिज्ञाय । कपिध्वजमतिप्रदाय । कपिध्वजसुहृन्मित्राय । कपिध्वजसुहृत्सखाय । कपिध्वजाङ्गनाराध्याय । कपिध्वजगतिप्रदाय । कपिध्वजाङ्गनारिघ्नाय । कपिध्वजरतिप्रदाय । कपिध्वजकुलत्रात्रे । कपिध्वजकुलारिघ्ने । कपिध्वजकुलाधीशाय । कपिध्वजकुलप्रियाय नमः ॥ ४०० ॐ कपीन्द्रसेविताङ्घ्य्रब्जाय नमः । कपीन्द्रस्तुतिवल्लभाय । कपीन्द्रानन्दजनकाय । कपीन्द्राश्रितविग्रहाय । कपीन्द्राश्रितपादाब्जाय । कपीन्द्राश्रितमानसाय । कपीन्द्राराधिताकाराय । कपीन्द्राभीष्टसिद्धिदाय । कपीन्द्रारातिसंहर्त्रे । कपीन्द्रातिबलप्रदाय । कपीन्द्रैकपरित्रात्रे । कपीन्द्रैकयशःप्रदाय । कपीन्द्रानन्दसम्पन्नाय । कपीन्द्रानन्दवर्धनाय । कपीन्द्रध्यानगम्यात्मने । कपीन्द्रज्ञानदायकाय । कल्याणमङ्गलाकाराय । कल्याणमङ्गलास्पदाय । कल्याणमङ्गलाधीशाय । कल्याणमङ्गलप्रदाय नमः ॥ ४२० ॐ कल्याणमङ्गलागाराय नमः । कल्याणमङ्गलात्मकाय । कल्याणानन्दसम्पन्नाय । कल्याणानन्दवर्धनाय । कल्याणानन्दसहिताय । कल्याणानन्ददायकाय । कल्याणानन्दसन्तुष्टाय । कल्याणानन्दसंयुताय । कल्याणीरागसङ्गीताय । कल्याणीरागवल्लभाय । कल्याणीरागरसिकाय । कल्याणीरागकारकाय । कल्याणीरागवल्लभाय । कल्याणीराघरसिकाय । कल्याणीरागकारकाय । कल्याणीकेलिकुशलाय । कल्याणीप्रियदर्शनाय । कल्पशास्त्रपरिज्ञात्रे । कल्पशास्त्रार्थदोहनाय । कल्पशास्त्रसमुद्धर्त्रे । कल्पशास्त्रप्रस्तुताय । कल्पकोटिशतातीताय । कल्पकोटिशतोत्तराय नमः ॥ ४४० ॐ कल्पकोटिशतज्ञानिने नमः । कल्पकोटिशतप्रभवे । कल्पवृक्षसमाकाराय । कल्पवृक्षसमप्रभाय । कल्पवृक्षसमोदाराय । कल्पवृक्षसमस्थिताय । कल्पवृक्षपरित्रात्रे । कल्पवृक्षसमावृताय । कल्पवृक्षवनाधीशाय । कल्पवृक्षवनास्पदाय । कल्पान्तदहनाकाराय । कल्पन्तादहनोपमाय । कल्पान्तकालशमनाय । कल्पान्तातीतविग्रहाय । कलशोद्भवसंसेव्याय । कलशोद्भववल्लभाय । कलशोद्भावभीतिघ्नाय । कलशोद्भवसिद्धिदाय । कपिलाय । कपिलाकाराय नमः ॥ ४६० ॐ कपिलप्रियदशनाय नमः । कर्दमात्मजभावस्थाय । कर्दमप्रियकारकाय । कन्यकानीकवरदाय । कन्यकानीकवल्लभाय । कन्यकानीकसंस्तुत्याय । कन्यकानीकनायकाय । कन्यादानप्रदत्रात्रे । कन्यादानप्रदप्रियाय । कन्यादानप्रभावज्ञाय । कन्यादानप्रदायकाय । कश्यपात्मजभावस्थाय । कश्यपात्मजभास्कराय । कश्यपात्मजशत्रुघ्नाय । कश्यपात्मजपालकाय । कश्यपात्मजमध्यस्थाय । कश्यपात्मजवल्लभाय । कश्यपात्मजभीतिघ्नाय । कश्यपात्मजदुर्लभाय । कश्यपात्मजभावस्थाय नमः ॥ ४८० ॐ कश्यपात्मजभावविदे नमः । कश्यपोद्भवदैत्यारये । कश्यपोद्भवदेवराजे । कश्यपानन्दजनकाय । कश्यपानन्दवर्धनाय । कश्यपारिष्टसंहर्त्रे । कश्यपाभीष्टसिद्धिदाय । कर्तृकर्मक्रियातीताय । कर्तृकर्मक्रियान्वयाय । कर्तृकर्मक्रियालक्ष्याय । कर्तृकर्मक्रियास्पदाय । कर्तृकर्मक्रियाधीशाय । कर्तृकर्मक्रियात्मकाय । कर्तृकर्मक्रियाभासाय । कर्तृकर्मक्रियाप्रदाय । कृपानाथाय । कृपासिन्धवे । कृपाधीशाय । कृपाकराय । कृपासागरमध्यस्थाय नमः ॥ ५०० ॐ कृपापात्राय नमः । कृपानिधये । कृपापात्रैकवरदाय । कृपापात्रभयापहाय । कृपाकटाक्षपापाघ्नाय । कृतकृत्याय । कृतान्तकाय । कदम्बवनमध्यस्थाय । कदम्बकुसुमप्रियाय । कदम्बवनसञ्चारिणे । कदम्बवनवल्लभाय । कर्पूरामोदमुदिताय । कर्पूरामोदवल्लभाय । कर्पूरवासनासक्ताय । कर्पूरागरुचर्चिताय । करुणारससम्पूर्णाय । करुणारसवर्धनाय । करुणाकरविख्याताय । करुणाकरसागराय । कालात्मने नमः ॥ ५२० ॐ कालजनकाय नमः । कालाग्नये । कालसंज्ञकाय । कालाय । कालकलातीताय । कालस्थाय । कालभैरवाय । कालज्ञाय । कालसंहर्त्रे । कालचक्रप्रवर्तकाय । कालरूपाय । कालनाथाय । कालकृते । कालिकाप्रियाय । कालैकवरदाय । कालाय । कारणाय । कालरूपभाजे । कालमायाकलातीताय । कालमायाप्रवर्तकाय नमः ॥ ५४० ॐ कालमायाविनिर्मुक्ताय नमः । कालमायाबलापहाय । कालत्रयगतिज्ञात्रे । कालत्रयपराक्रमाय । कालज्ञानकलातीताय । कालज्ञानप्रदायकाय । कालज्ञाय । कालरहिताय । कालाननसमप्रभाय । कालचक्रैकहेतुस्थाय । कालरात्रिदुरत्ययाय । कालपाशविनिर्मुक्ताय । कालपाशविमोचनाय । कालव्यालैकदलनाय । कालव्यालभयापहाय । कालकर्मकलातीताय । कालकर्मकलाश्रयाय । कालकर्मकलाधीशाय । कालकर्मकलात्मकाय । कालव्यालपरिग्रस्तनिजभक्तैकमोचनाय नमः ॥ ५६० ओम् काशिराजशिरश्छेत्रे नमः । काशीशप्रियकारकाय । काशीस्थार्तिहराय । काशीमध्यस्थाय । काशिकाप्रियाय । काशीवासिजनानन्दिने । काशीवासिजनप्रियाय । काशीवासिजनत्रात्रे । काशीवासिजनस्तुताय । काशीवासिविकारघ्नाय । काशीवासिविमोचनाय । काशीवासिजनोद्धर्त्रे । काशीवासिकुलप्रदाय । काशीवास्याश्रिताङ्घ्य्रब्जाय । काशीवासिसुखप्रदाय । काशीस्थाभीष्टफलदाय । काशीस्थारिष्टनाशनाय । काशीस्थद्विजसंसेव्याय । काशीस्थद्विजपालकाय । काशीस्थद्विजसद्बुद्धिप्रदात्रे नमः ॥ ५८० ॐ काशिकाश्रयाय नमः । कान्तीशाय । कान्तिदाय । कान्ताय । कान्तारप्रियदर्शनाय । कान्तिमते । कान्तिजनकाय । कान्तिस्थाय । कान्तिवर्धनाय । कालागुरुसुगन्धाढ्याय । कालागरुविलेपनाय । कालागरुसुगन्धज्ञाय । कालागरुसुगन्धकृते । कापट्यपटलच्छेत्रे । कायस्थाय । कायवर्धनाय । कायभाग्भयभीतिघ्नाय । कायरोगापहारकाय । कार्यकारणकर्तृस्थाय । कार्यकारणकारकाय नमः ॥ ६०० ॐ कार्यकारणसम्पन्नाय नमः । कार्यकारणसिद्धिदाय । काव्यामृतरसास्वादिने । काव्यामृतरसात्मकाय । काव्यामृतरसाभिज्ञाय । काव्यामृतरसप्रियाय । कादिवर्णैकजनकाय । कादिवर्णप्रवर्तकाय । कादिवर्णविवेकज्ञाय । कादिवर्णविनोदवते । कादिहादिमनुज्ञात्रे । कादिहादिमनुप्रियाय । कादिहादिमनूद्धारकारकाय । कादिसंज्ञकाय । कालुष्यरहिताकाराय । कालुष्यैकविनाशनाय । कारागारविमुक्तात्मने । कारागृहविमोचनाय । कामात्मने । कामदाय नमः ॥ ६२० ॐ कामिने नमः । कामेशाय । कामपूरकाय । कामहृते । कामजनकाय । कामिकामप्रदायकाय । कामपालाय । कामभर्त्रे । कामकेलिकलानिधये । कामकेलिकलासक्ताय । कामकेलिकलाप्रियाय । कामबीजैकवरदाय । कामबीजसमन्विताय । कामजिते । कामवरदाय । कामक्रीडातिलालसाय । कामार्तिशमनाय । कामालङ्कृताय । कामसंस्तुताय । कामिनीकामजनकाय नमः ॥ ६४० ॐ कामिनीकामवर्धनाय नमः । कामिनीकामरसिकाय । कामिनीकामपूरकाय । कामिनीमानदाय । कामकलाकौतूहलप्रियाय । कामिनीप्रेमजनकाय । कामिनीप्रेमवर्धनाय । कामिनीहावभावज्ञाय । कामिनीरूपरसिकाय । कामिनीरूपभूषणाय । कामिनीमानसोल्लासिने । कामिनीमानसास्पदाय । कामिभक्तजनत्रात्रे । कामिभक्तजनप्रियाय । कामेश्वराय । कामदेवाय । काम्बीजैकजीवनाय । कालिन्दीविषसंहर्त्रे । कालिन्दीप्राणजीवनाय नमः ॥ ६६० ॐ कालिन्दीहृदयानन्दिने नमः । कालिन्दीनीरवल्लभाय । कालिन्दीकेलिकुशलाय । कालिन्दीप्रीतिवर्धनाय । कालिन्दीकेलिरसिकाय । कालिन्दीकेलिलालसाय । कालिन्दीनीरसङ्खेलद्गोपीयूथसमावृताय । कालिन्दीनीरमध्यस्थाय । कालिन्दीनीरकेलिकृते । कालिन्दीरमणासक्ताय । कालिनागमदापहाय । कामधेनुपरित्रात्रे । कामधेनुसमावृताय । काञ्चनाद्रिसमानश्रिये । काञ्चनाद्रिनिवासकृते । काञ्चनाभूषणासक्ताय । काञ्चनैकविवर्धनाय । काञ्चनाभश्रियासक्ताय । काञ्चनाभश्रियाश्रिताय । कार्तिकेयैकवरदाय नमः ॥ ६८० ॐ कार्तवीर्यमदापहाय नमः । किशोरीनायिकासक्ताय । किशोरीनायिकाप्रियाय । किशोरीकेलिकुशलाय । किशोरीप्राणजीवनाय । किशोरीवल्लभाकाराय । किशोरीप्राणवल्लभाय । किशोरीप्रीतिजनकाय । किशोरीप्रियदर्शनाय । किशोरीकेलिसंसक्ताय । किशोरीकेलिवल्लभाय । किशोरीकेलिसंयुक्ताय । किशोरीकेलिलोलुपाय । किशोरीहृदयानन्दिने । किशोरीहृदयास्पदाय । किशोरीशाय । किशोरात्मने । किशोराय । किंशुकाकृतये । किंशुकाभरणालक्ष्याय नमः ॥ ७०० ॐ किंशुकाभरणान्विताय नमः । कीर्तिमते । कीर्तिजनकाय । कीर्तनीयपराक्रमाय । कीर्तनीययशोराशये । कीर्तिस्थाय । कीर्तनप्रियाय । कीर्तिश्रीमतिदाय । कीशाय । कीर्तिज्ञाय । कीर्तिवर्धनाय । क्रियात्मकाय । क्रियाधाराय । क्रियाभासाय । क्रियास्पदाय । कीलालामलचिद्वृत्तये । कीलालाश्रयकारणाय । कुलधर्माधिपाधीशाय । कुलधर्माधिपप्रियाय । कुलधर्मपरित्रात्रे नमः ॥ ७२० ॐ कुलधर्मपतिस्तुताय नमः । कुलधर्मपदाधाराय । कुलधर्मपदाश्रयाय । कुलधर्मपतिप्राणाय । कुलधर्मपतिप्रियाय । कुलधर्मपतित्रात्रे । कुलधर्मैकरक्षकाय । कुलधर्मसमासक्ताय । कुलधर्मैकदोहनाय । कुलधर्मसमुद्धर्त्रे । कुलधर्मप्रभावविदे । कुलधर्मसमाराध्याय । कुलधर्मधुरन्धराय । कुलमार्गरतासक्ताय । कुलमार्गरताश्रयाय । कुलमार्गसमासीनाय । कुलमार्गसमुत्सुकाय । कुलधर्माधिकारस्थाय । कुलधर्मविवर्धनाय । कुलाचारविचारज्ञाय नमः ॥ ७४० ॐ कुलाचारसमाश्रिताय नमः । कुलाचारसमायुक्ताय । कुलाचारसुखप्रदाय । कुलाचारातिचतुराय । कुलाचारातिवल्लभाय । कुलाचारपवित्राङ्गाय । कुलाचारप्रमाणकृते । कुलवृक्षैकजनकाय । कुलवृक्षविवर्धनाय । कुलवृक्षपरित्रात्रे । कुलवृक्षफलप्रदाय । कुलवृक्षफलाधीशाय । कुलवृक्षफलाशनाय । कुलमार्गकलाभिज्ञाय । कुलमार्गकलान्विताय । कुकर्मनिरतातीताय । कुकर्मनिरतान्तकाय । कुकर्ममार्गरहिताय । कुकर्मैकनिषूदनाय । कुकर्मरहिताधीशाय नमः ॥ ७६० ॐ कुकर्मरहितात्मकाय नमः । कुकर्मरहिताकाराय । कुकर्मरहितास्पदाय । कुकर्मरहिताचाराय । कुकर्मरहितोत्सवाय । कुकर्मरहितोद्देशाय । कुकर्मरहितप्रियाय । कुकर्मरहितान्तस्थाय । कुकर्मरहितेश्वराय । कुकर्मरहितस्त्रीशाय । कुकर्मरहितप्रजाय । कुकर्मोद्भवपापघ्नाय । कुकर्मोद्भवदुःखघ्ने । कुतर्करहिताधीशाय । कुतर्करहिताकृतये । कूटस्थसाक्षिणे । कूटात्मने । कूटस्थाक्षरनायकाय । कूटस्थाक्षरसंसेव्याय । कूटस्थाक्षरकारणाय नमः ॥ ७८० ॐ कुबेरबन्धवे नमः । कुशलाय । कुम्भकर्णविनाशनाय । कूर्माकृतिधराय । कूर्माय । कूर्मस्थावनिपालकाय । कुमारीवरदाय । कुस्थाय । कुमारीगणसेविताय । कुशस्थलीसमासीनाय । कुशदैत्यविनाशनाय । केशवाय । क्लेशसंहर्त्रे । केशिदैत्यविनाशनाय । क्लेशहीनमनोवृत्तये । क्लेशहीनपरिग्रहाय । क्लेशातीतपदाधीशाय । क्लेशातीतजनप्रियाय । क्लेशातीतशुभाकाराय । क्लेशातीतसुखास्पदाय नमः ॥ ८०० ॐ क्लेशातीतसमाजस्थाय नमः । क्लेशातीतमहामतये । क्लेशातीतजनत्रात्रे । क्लेशहीनजनेश्वराय । क्लेशहीनस्वधर्मस्थाय । क्लेशहीनविमुक्तिदाय । क्लेशहीननराधीशाय । क्लेशहीननरोत्तमाय । क्लेशातिरिक्तसदनाय । क्लेशमूलनिकन्दनाय । क्लेशातिरक्तभावस्थाय । क्लेशहीनैकवल्लभाय । क्लेशहीनपदान्तस्थाय । क्लेशहीनजनार्दनाय । केसराङ्कितभालश्रिये । केसराङ्कितवल्लभाय । केसरालिप्तहृदयाय । केसरालिप्तसद्भुजाय । केसराङ्कितवासश्रिये । केसराङ्कितविग्रहाय नमः ॥ ८२० ॐ केसराकृतिगोपीशाय नमः । केसरामोदवल्लभाय । केसरामोदमधुपाय । केसरामोदसुन्दराय । केसरामोदमुदिताय । केसरामोदवर्धनाय । केसरार्चितभालश्रिये । केसरार्चितविग्रहाय । केसरार्चितपादाब्जाय । केसरार्चितकुण्डलाय । केसरामोदसम्पन्नाय । केसरामोदलोलुपाय । केतकीकुसुमासक्ताय । केतकीकुसुमप्रियाय । केतकीकुसुमाधीशाय । केतकीकुसुमाङ्किताय । केतकीकुसुमामोदवर्धनाय । केतकीप्रियाय । केतकीशोभिताकाराय । केतकीशोभिताम्बराय नमः ॥ ८४० ॐ केतकीकुसुमामोदवल्लभाय नमः । केतकीश्वराय । केतकीसौरभानन्दिने । केतकीसौरभप्रियाय । केयूरालङ्कृतभुजाय । केयूरालङ्कृतात्मकाय । केयूरालङ्कृतश्रीशाय । केयूरप्रियदर्शनाय । केदारेश्वरसंयुक्ताय । केदारेश्वरवल्लभाय । केदारेश्वरपार्श्वस्थाय । केदारेश्वरभक्तपाय । केदारकल्पसारज्ञाय । केदारस्थलवासकृते । केदाराश्रितभीतिघ्नाय । केदाराश्रितमुक्तिदाय । केदारावासिवरदाय । केदाराश्रितदुःखघ्ने । केदारपोषकाय । केशाय नमः ॥ ८६० ॐ केदारान्नविवर्धनाय नमः । केदारपुष्टिजनकाय । केदारप्रियदर्शनाय । कैलासेशसमाजस्थाय । कैलासेशप्रियङ्कराय । कैलासेशसमायुक्ताय । कैलासेशप्रभावविदे । कैलासाधीशशत्रुघ्नाय । कैलासपतितोषकाय । कैलासाधीशसहिताय । कैलासाधीशवल्लभाय । कैवल्यमुक्तिजनकाय । कैवल्यपदवीश्वराय । कैवल्यपदवीत्रात्रे । कैवल्यपदवीप्रियाय । कैवल्यज्ञानसम्पन्नाय । कैवल्यज्ञानसाधनाय । कैवल्यज्ञानगम्यात्मने । कैवल्यज्ञानदायकाय । कैवल्यज्ञानसंसिद्धाय नमः ॥ ८८० ॐ कैवल्यज्ञानदीपकाय नमः । कैवल्यज्ञानविख्याताय । कैवल्यैकप्रदायकाय । क्रोधलोभभयातीताय । क्रोधलोभविनाशनाय । क्रोधारये । क्रोधहीनात्मने । क्रोधहीनजनप्रियाय । क्रोधहीनजनाधीशाय । क्रोधहीनप्रजेश्वराय । कोपतापोपशमनाय । कोपहीनवरप्रदाय । कोपहीननरत्रात्रे । कोपहीनजनाधिपाय । कोपहीननरान्तःस्थाय । कोपहीनप्रजापतये । कोपहीनप्रियासक्ताय । कोपहीनजनार्तिघ्ने । कोपहीनपदाधीशाय । कोपहीनपदप्रदाय नमः ॥ ९०० ॐ कोपहीननरस्वामिने नमः । कोपहीनस्वरूपधृषे । कोकिलालापसङ्गीताय । कोकिलालापवल्लभाय । कोकिलालापलीनात्मने । कोकिलालापकाराय । कोकिलालापकान्तेशाय । कोकिलालापभावविदे । कोकिलागानरसिकाय । कोकिलास्वरवल्लभाय । कोटिसूर्यसमानश्रिये । कोटिचन्द्रामृतात्मकाय । कोटिदानवसंहर्त्रे । कोटिकन्दर्पदर्पघ्ने । कोटिदेवेन्द्रसंसेव्याय । कोटिब्रह्मार्चिताकृतये । कोटिब्रह्माण्डमध्यस्थाय । कोटिविद्युत्समद्युतये । कोट्यश्वमेधपापघ्नाय । कोटिकामेश्वराकृतये नमः ॥ ९२० ॐ कोटिमेघसमोदाराय नमः । कोटिवह्निसुदुःसहाय । कोटिपाथोधिगम्भीराय । कोटिमेरुसमस्थिराय । कोटिगोपीजनाधीशाय । कोटिगोपाङ्गनावृताय । कोटिदैत्येशदर्पघ्नाय । कोटिरुद्रपराक्रमाय । कोटिभक्तार्तिशमनाय । कोटिदुष्टविमर्दनाय । कोटिभक्तजनोद्धर्त्रे । कोटियज्ञफलप्रदाय । कोटिदेवर्षिसंसेव्याय । कोटिब्रह्मर्षिमुक्तिदाय । कोटिराजर्षिसंस्तुत्याय । कोटिब्रह्माण्डमण्डनाय । कोट्याकाशप्रकाशात्मने । कोटिवायुमहाबलाय । कोटितेजोमयाकाराय । कोटिभूमिसमक्षमिणे नमः ॥ ९४० ॐ कोटिनीरसमस्वच्छाय । कोटिदिग्ज्ञानदायकाय । कोटिब्रह्माण्डजनकाय । कोटिब्रह्माण्डबोधकाय । कोटिब्रह्माण्डपालकाय । कोटिब्रह्माण्डसंहर्त्रे । कोटिवाक्पतिवाचालाय । कोटिशुक्रकवीश्वराय । कोटिद्विजसमाचाराय । कोटिहेरम्बविघ्नघ्ने । कोटिमानसहंसात्मने । कोटिमानससंस्थिताय । कोटिच्छलकरारातये । कोटिदाम्भिकनाशनाय । कोटिशून्यपथच्छेत्रे । कोटिपाखण्डखण्डनाय । कोटिशेषधराधाराय । कोटिकालप्रबोधकाय । कोटिवेदान्तसंवेद्याय । कोटिसिद्धान्तनिश्चयाय नमः ॥ ९६० ॐ कोटियोगीश्वराधीशाय नमः । कोटियोगैकसिद्धिदाय । कोटिधामाधिपाधीशाय । कोटिलोकैकपालकाय । कोटियज्ञैकभोक्त्रे । कोटियज्ञफलप्रदाय । कोटिभक्तहृदन्तस्थाय । कोटिभक्ताभयप्रदाय । कोटिजन्मार्तिशमनाय । कोटिजन्माघनाशनाय । कोटिजन्मान्तरज्ञानप्रदात्रे । कोटिभक्तपाय । कोटिशक्तिसमायुक्ताय । कोटिचैतन्यबोधकाय । कोटिचक्रावृताकाराय । कोटिचक्रप्रवर्तकाय । कोटिचक्रार्चनत्रात्रे । कोटिवीरावलीवृताय । कोटितीर्थजलान्तस्थाय । कोटितीर्थफलप्रदाय नमः ॥ ९८० ॐ कोमलामलचिद्वृत्तये नमः । कोमलामलमानसाय । कौस्तुभोद्भासितोरस्काय । कौस्तुभोद्भासिताकृतये । कौरवानीकसंहर्त्रे । कौरवार्णवकुम्भभुवे । कौन्तेयाश्रितपादाब्जाय । कौन्तयाभयदायकाय । कौन्तेयारातिसंहर्त्रे । कौन्तेयप्रतिपालकाय । कौन्तेयानन्दजनकाय । कौन्तेयप्राणजीवनाय । कौन्तयाचलभावज्ञाय । कौन्तयाचलमुक्तिदाय । कौमुदीमुदिताकाराय । कौमुदीमुदिताननाय । कौमुदीमुदितप्राणाय । कौमुदीमुदिताशयाय । कौमुदीमोदमुदिताय । कौमुदीमोदवल्लभाय नमः ॥ १००० ॐ कौमुदीमोदमधुपाय नमः । कौमुदीमोदवर्धनाय । कौमुदीमोदमानात्मने । कौमुदीमोदसुन्दराय । कौमुदीदर्शनानन्दिने । कौमुदीदर्शनोत्सुकाय । कौसल्यापुत्रभावस्थाय । कौसल्यानन्दवर्धनाय । कंसारये । कंसहीनात्मने । कंसपक्षनिकन्दनाय । कङ्कालाय । कङ्कवरदाय । कण्टकक्षयकारकाय । कन्दर्पदर्पशमनाय । कन्दर्पाभिमनोहराय । कन्दर्पकामनाहीनाय । कन्दर्पज्वरनाशनाय नमः ॥ १०१८ इति श्रीब्रह्माण्डपुराणेऽध्यात्मकभागवते श्रुतिरहस्ये ककारादि श्रीकृष्णसहस्रनामावलिः समाप्ता ।