अक्षर आकार:

ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम्

kakArAdi shrI kalkyaShTottarashatanAmastotram

ककारादि श्रीकल्क्यष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाय नमः । हरिः ॐ कल्की कल्की कल्किहन्ता कल्किजित्कलिमारकः । कल्क्यलभ्यः कल्मषघ्नः कल्पितक्षोणिमङ्गलः ॥ १॥ कलिताश्वाकृतिः कन्तुसुन्दरः कञ्जलोचनः । कल्याणमूर्तिः कमलाचित्तचोरः कलानिधिः ॥ २॥ कमनीयः कलिनिशाकल्यनामा कनत्तनुः । कलानिधिसहस्राभा कपर्दिगिरिसन्निभः ॥ ३॥ कन्दर्पदर्पदमनः कण्ठीरवपराक्रमः । कन्धरोच्चलितश्वेतपटानिर्धूतकन्धरः ॥ ४॥ कठोरहेषानिनदत्रासिताशेषमानुषः । कविः कवीन्द्रसंस्तुत्यः कमलासनसन्नुतः ॥ ५॥ कनत्खुराग्रकुलिशचूर्णीकृताखिलाचलः । कचित्तदर्पदमनगमनस्तम्भिताहिपः ॥ ६॥ कलाकुलकलाजालचलवालामलाचलः । कल्याणकान्तिसन्तान पारदक्षालिताखिलः ॥ ७॥ कल्पद्रुकुसुमाकीर्णः कलिकल्पमहीरुहः । कचन्द्राग्नीन्द्ररुद्रादि बुधलोकमयाकृतिः ॥ ८॥ कञ्जासनाण्डामितात्मप्रतापः कन्धिबन्धनः । कठोरखुरविन्यासपीडिताशेषभूतलः ॥ ९॥ कबलीकृतमार्ताण्डहिमांशुकिरणाङ्कुरः । कदर्थीकृतरुद्रादिवीरवर्यः कठोरदृक् ॥ १०॥ कविलोकामृतासार वर्षायितदृगावलिः । कदात्मायुर्घृतग्राहिकोपाग्निरुचिदृक्ततिः ॥ ११॥ कठोरश्वासनिर्धूतखलतूलावृताम्बुधिः । कलानिधिपदोद्भेदलीलाकृतसमुत्प्लवः ॥ १२॥ कठोरखुरनिर्भेदक्रोशदाकाशसंस्तुतः । कञ्जास्याण्डबिभित्योर्थ्वदृष्टिश्रुतियुगाद्भुतः ॥ १३॥ कनत्पक्षद्वयव्याज शङ्खचक्रोपशोभितः । कदर्थीकृतकौबेरशङ्खश्रुतियुगाञ्चितः ॥ १४॥ कलितांशुगदावालः कण्ठसन्मणिविभ्रमः । कलानिधिलसत्फालः कमलालयविग्रहः ॥ १५॥ कर्पूरखण्डरदनः कमलाबडबान्वितः । करुणासिन्धुफेनान्तलम्बमानाधरोष्टकः ॥ १६॥ कलितानन्तचरणः कर्मब्रह्मसमुद्भवः । कर्मब्रह्माब्जमार्ताण्डः कर्मब्रह्मद्विरर्दनः ॥ १७॥ कर्मब्रह्ममयाकारः कर्मब्रह्मविलक्षणः । कर्मब्रह्मात्यविषयः कर्मब्रह्मस्वरूपवित् ॥ १८॥ कर्मास्पृष्टः कर्महीनः कल्याणानन्दचिन्मयः । कञ्जासनाण्डजठरः कल्पिताखिलविभ्रमः ॥ १९॥ कर्मालसजनाज्ञेयः कर्मब्रह्ममतासहः । कर्माकर्मविकर्मस्थः कर्मसाक्षी कभासकः ॥ २०॥ कचन्द्राग्न्युडुतारादिभासहीनः कमध्यगः । कचन्द्रादित्यलसनः कलावार्ताविवर्जितः ॥ २१॥ करुद्रमाधवमयः कलाभूतप्रमातृकः । कलितानन्तभुवन सृष्टिस्थितिलयक्रियः ॥ २२॥ करुद्रादि तरङ्गाध्यस्वात्मानन्दपयोदधिः । कलिचित्तानन्दसिन्धुसम्पूर्णानङ्कचन्द्रमाः ॥ २३॥ कलिचेतस्सरोहंसः कलिताखिलचोदनः । कलानिधिवरज्योत्स्नामृतक्षालितविग्रहः ॥ २४॥ कपर्दिमकुटोदञ्चद्गङ्गापुष्करसेवितः । कञ्जासनात्ममोदाब्धितरङ्गार्द्रानिलार्चितः ॥ २५॥ कलानिधिकलाश्वेतशारदाम्बुदविग्रहः । कमलावाङ्मरन्दाब्धिफेनचन्दनचर्चितः ॥ २६॥ कलितात्मानन्दभुक्तिः करुङ्नीराजिताकृतिः । कश्यपादिस्तुतख्यातिः कविचेतस्सुमार्पणः ॥ २७॥ कलिताकारसद्धर्मः कलाफलमयाकृतिः । कठोरखुरघातात्तप्राणाधर्मवशुः कलिजित् ॥ २८॥ कलापूर्णीकृतवृषः कल्पितादियुगस्थितिः । कम्रः कल्मषपैशाचमुक्ततुष्टधरानुतः ॥ २९॥ कर्पूरधवलात्मीय कीर्तिव्याप्तदिगन्तरः । कल्याणात्मयशोवल्लीपुष्पायितकलानिधिः ॥ ३०॥ कल्याणात्मयशस्सिन्धु जाताप्सरसनर्तितः । कमलाकीर्तिगङ्गाम्भः परिपूर्णयशोम्बुधिः ॥ ३१॥ कमलासनधीमन्थमथितानन्दसिन्धुभू । कल्याणसिन्धुः कल्याणदायी कल्याणमङ्गलः ॥ ३२॥ ॥ इति ककारादि कल्क्यष्टोत्तरशतनाममूलं लिखितं रामेण पराभवाश्वयुज बहुल चतुर्थ्याम् समर्पितं च श्रीमते हयग्रीवाय देवाय ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu