अक्षर आकार:

ककारादि श्रीकल्क्यष्टोत्तरशतनामावलिः

kakArAdi shrI kalkyaShTottarashatanAmAvaliH

ककारादि श्रीकल्क्यष्टोत्तरशतनामावलिः

श्री हयग्रीवाय नमः । हरिः ॐ ॐ कल्किने नमः । ॐ कल्किने नमः । ॐ कल्किहन्त्रे नमः । ॐ कल्किजिते नमः । ॐ कलिमारकाय नमः । ॐ कल्क्यलभ्याय नमः । ॐ कल्मषघ्नाय नमः । ॐ कल्पितक्षोणिमङ्गलाय नमः । ॐ कलिताश्वाकृतये नमः । ॐ कन्तुसुन्दराय नमः । १० ॐ कञ्जलोचनाय नमः । ॐ कल्याणमूर्तये नमः । ॐ कमलाचित्तचोराय नमः । ॐ कलानिधये नमः । ॐ कमनीयाय नमः । ॐ कलिनिशाकल्यनाम्ने नमः । ॐ कनत्तनवे नमः । ॐ कलानिधिसहस्राभाय नमः । ॐ कपर्दिगिरि सन्निभाय नमः । ॐ कन्दर्पदर्पदमनाय नमः । २० ॐ कण्ठीरवपराक्रमाय नमः । ॐ कन्धरोच्चलितश्वेतपटानिर्धूतकन्धराय नमः । ॐ कठोरहेषानिनदत्रासिताशेषमानुषाय नमः । ॐ कवये नमः । ॐ कवीन्द्रसंस्तुत्याय नमः । ॐ कमलासन सन्नुताय नमः । ॐ कनत्खुराग्रकुलिशचूर्णीकृताखिलाचलाय नमः । ॐ कचित्तदर्पदमनगमनस्तम्भिताहिपाय नमः । ॐ कलाकुलकलाजालचलवालामलाचलाय नमः । ॐ कल्याणकान्तिसन्तान पारदक्षालिताखिलाय नमः । ३० ॐ कल्पद्रुकुसुमाकीर्णाय नमः । ॐ कलिकल्पमहीरुहाय नमः । ॐ कचन्द्राग्नीन्द्ररुद्रादि बुधलोकमयाकृतये नमः । ॐ कञ्जासनाण्डामितात्मप्रतापाय नमः । ॐ कन्धिबन्धनाय नमः । ॐ कठोरखुरविन्यासपीडिताशेषभूतलाय नमः । ॐ कबलीकृतमार्ताण्डहिमांशुकिरणाङ्कुराय नमः । ॐ कदर्थीकृतरुद्रादिवीरवर्याय नमः । ॐ कठोरदृशे नमः । ॐ कविलोकामृतासारवर्षायितदृगावलये नमः । ४० ॐ कदात्मायुर्घृतग्राहिकोपाग्निरुचिदृक्ततये नमः । ॐ कठोरश्वासनिर्धूतखलतुलावृताम्बुधये नमः । ॐ कलानिधिपदोद्भेदलीलाकृतसमुत्प्लवाय नमः । ॐ कठोरखुरनिर्भेदक्रोशदाकाशसंस्तुताय नमः । ॐ कञ्जास्याण्डबिभित्सोर्थ्वदृष्टिश्रुतियुगाद्भुताय नमः । ॐ कनत्पक्षद्वयव्याजशङ्खचक्रोपशोभिताय नमः । ॐ कदर्थीकृतकौबेरशङ्खश्रुतियुगाञ्चिताय नमः । ॐ कलितांशुगदावालाय नमः । ॐ कण्ठसन्मणिविभ्रमाय नमः । ॐ कलानिधिलसत्फालाय नमः । ५० ॐ कमलालयविग्रहाय नमः । ॐ कर्पूरखण्डरदनाय नमः । ॐ कमलाबडबान्विताय नमः । ॐ करुणासिन्धुफेनान्तलम्बमानाधरोष्टकाय नमः । ॐ कलितानन्तचरणाय नमः । ॐ कर्मब्रह्मसमुद्भवाय नमः । ॐ कर्मब्रह्माब्जमार्ताण्डाय नमः । ॐ कर्मब्रह्मद्विडर्दनाय नमः । ॐ कर्मब्रह्ममयाकाराय नमः । ॐ कर्मब्रह्मविलक्षणाय नमः । ६० ॐ कर्मब्रह्मात्यविषयाय नमः । ॐ कर्मब्रह्मस्वरूपविदे नमः । ॐ कर्मास्पृष्टाय नमः । ॐ कर्मवीराय नमः । ॐ कल्याणानन्दचिन्मयाय नमः । ॐ कञ्जासनाण्डजठराय नमः । ॐ कल्पिताखिलविभ्रमाय नमः । ॐ कर्मालसजनाज्ञेयाय नमः । ॐ कर्मब्रह्ममतासहाय नमः । ॐ कर्माकर्मविकर्मस्थाय नमः । ७० ॐ कर्मसाक्षिणे नमः । ॐ कभासकाय नमः । ॐ कचन्द्राग्न्युडुतारादिभासहीनाय नमः । ॐ कमध्यगाय नमः । ॐ कचन्द्रादित्यलसनाय नमः । ॐ कलावार्ताविवर्जिताय नमः । ॐ करुद्रमाधवमयाय नमः । ॐ कलाभूतप्रमातृकाय नमः । ॐ कलितानन्तभुवनसृष्टिस्थितिलयक्रियाय नमः । ॐ करुद्रादितरङ्गाध्यस्वात्मानन्दपयोदधये नमः । ८० ॐ कलिचित्तानन्दसिन्धुसम्पूर्णानङ्कचन्द्रमसे नमः । ॐ कलिचेतस्सरोहंसाय नमः । ॐ कलिताखिलचोदनाय नमः । ॐ कलानिधिवरज्योत्स्नामृतक्षालितविग्रहाय नमः । ॐ कपर्दिमकुटोदञ्चद्गङ्गापुष्करसेविताय नमः । ॐ कञ्जासनात्ममोदाब्धितरङ्गार्द्रानिलार्चिताय नमः । ॐ कलानिधिकलाश्वेतशारदाम्बुदविग्रहाय नमः । ॐ कमलावाङ्मरन्दाब्धिफेनचन्दनचर्चिताय नमः । ॐ कलितात्मानन्दभुक्तये नमः । ॐ करुङ्नीराजिताकृतये नमः । ९० ॐ कश्यपादिस्तुतख्यातये नमः । ॐ कविचेतस्सुमार्पणाय नमः । ॐ कलिताकार सद्धर्माय नमः । ॐ कलाफलमयाकृतये नमः । ॐ कठोरखुरघातात्तप्राणाधर्मवशवे नमः । ॐ कलिजिते नमः । ॐ कलापूर्णीकृतवृषाय नमः । ॐ कल्पितादियुगस्थितये नमः । ॐ कम्राय नमः । ॐ कल्मषपैशाचमुक्ततुष्टधरानुताय नमः । ॐ कर्पूरधवलात्मीय कीर्तिव्याप्तदिगन्तराय नमः । ॐ कल्याणात्मयशोवल्लीपुष्पायितकलानिधये नमः । ॐ कल्याणात्मयशस्सिन्धुजाताप्सरसनर्तिताय नमः । ॐ कमलाकीर्तिगङ्गाम्भः परिपूर्णयशोम्बुधये नमः । ॐ कमलासनधीमन्थमथितानन्दसिन्धुभुवे नमः । ॐ कल्याणसिन्धवे नमः । ॐ कल्याणदायिने नमः । ॐ कल्याणमङ्गलाय नमः । ॥ इति ककारादि श्री कल्क्यष्टोत्तरशतनामावलिः पराभवाश्वयुजकृष्णचतुर्थीदिने लिखिता रामेण समर्पिता च श्री हयग्रीवाय देवाय श्री हयग्रीवार्पणमस्तु श्री ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu