अक्षर आकार:

ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम्

kakArAdi shrI kUrmAShTottarashatanAmastotram

ककारादि श्रीकूर्माष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाय नमः । हरिः ॐ कमठः कन्धिमध्यस्थः करुणावरुणालयः । कुलाचलसमुद्धर्ता कुण्डलीन्द्रसमाश्रयः ॥ १॥ कठोरपृष्टः कुधरः कलुषीकृतसागरः । कल्याणमूर्तिः क्रतुभुक्प्रार्थनाधृत विग्रहः ॥ २॥ कुलाचलसमुद्भ्रान्तिघृष्टकण्डूतिसौख्यवान् । करालश्वाससङ्क्षुब्धसिन्धूर्मिप्रहताम्बरः ॥ ३॥ कन्धिकर्दमकस्तूरीलिप्तवक्षःस्थलः कृती । कुलीरादिपयस्सत्त्वनिष्पेषणचतुष्पदः ॥ ४॥ कराग्रादत्तसम्भुक्ततिमिङ्गिलगिलोत्करः । कन्धिपुष्पद्विरेफाभः कपर्द्यादिसमीडितः ॥ ५॥ कल्याणाचलतुङ्गात्मागाधीकृतपयोनिधिः । कुलिशत्पृष्ठसङ्घर्षक्षीणमूलकुलाचलः ॥ ६॥ काश्यपीसत्कुचप्रायमन्दराहतपृष्ठकः । कायैकदेशापर्याप्तशेषदिग्गजमण्डलः ॥ ७॥ कठोरचरणाघातद्वैधीकृतपयोनिधिः । कालकूटकृतत्रासः काण्डदुर्मितवैभवः ॥ ८॥ कमनीयः कविस्तुत्यः कनिधिः कमलापतिः । कमलासनकल्याणसन्धाता कलिनाशनः ॥ ९॥ कटाक्षक्षतदेवार्तिः केन्द्रादिविधृतांजलिः । कालीपतिप्रीतिपात्रं कामितार्थप्रदः कविः ॥ १०॥ कूटस्थः कूटकमठः कूटयोगिसुदुर्लभः । कामहीनः कामहेतुः कामभृत्कंजलोचनः ॥ ११॥ क्रतुभुग्दैन्यविध्वंसी क्रतुभुक्पालकः क्रतुः । क्रतुपूज्यः क्रतुनिधिः क्रतुत्राता क्रतूद्भवः ॥ १२॥ कैवल्यसौख्यदकथः कैशोरोत्क्षिप्तमन्दरः । कैवल्यनिर्वाणमयः कैटभप्रतिसूदनः ॥ १३॥ क्रान्तसर्वाम्बुधिः क्रान्तपातालः कोमलोदरः । कन्धिसोर्मिजलक्षौमः कुलाचलकचोत्करः ॥ १४॥ कटुनिश्श्वासनिर्धूतरक्षस्तूलः कृताद्भुतः । कौमोदकीहतामित्रः कौतुकाकविताहवः ॥ १५॥ करालिकंटकोद्धर्ता कविताब्धिमणीसुमः । कैवल्यवल्लरीकन्दः कन्दुकीकृतचन्दिरः ॥ १६॥ करपीतसमस्ताब्धिः कायान्तर्गतवाश्चरः । कर्पराब्जद्विरेफाभमन्दरः कन्दलत्स्मितः ॥ १७॥ काश्यपीव्रततीकन्दः कश्यपादिसमानतः । कल्याणजालनिलयः क्रतुभुङ्नेत्रनन्दनः ॥ १८॥ कबन्धचरहर्यक्षः क्रान्तदर्शिमनोहरः । कर्मठाविषयः कर्मकर्तृभावादिवर्जितः ॥ १९॥ कर्मानधीनः कर्मज्ञः कर्मपः कर्मचोदनः । कर्मसाक्षी कर्महेतुः कर्मज्ञानविभागकृत् ॥ २०॥ कर्ता कारयिता कार्यं कारणं करणं कृतिः । कृत्स्नं कृत्स्नातिगः कृत्स्नचेतनः कृत्स्नमोहनः ॥ २१॥ करणागोचरः कालः कार्यकारणतातिगः । कालावशः कालपाशबद्धभक्तावनाभिधः ॥ २२॥ कृतकृत्यः केलिफलः कीर्तनीयः कृतोत्सवः । कृतेतरमहानन्दः कृतज्ञः कृतसत्सुखः ॥ २३॥ ॥ इति ककारादि श्री कमठावताराष्टोत्तरशतम् रामेण पराभव वैशाख बहुलद्वादश्यां लिखितम् श्री हयग्रीवायार्पितम् ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu