अक्षर आकार:

ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः

kakArAdi shrI kUrmAShTottarashatanAmAvaliH

ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः

श्री हयग्रीवाय नमः । हरिः ॐ ॐ कमठाय नमः । ॐ कन्धिमध्यस्थाय नमः । ॐ करुणावरुणालयाय नमः । ॐ कुलाचलसमुद्धर्त्रे नमः । ॐ कुण्डलीन्द्रसमाश्रयाय नमः । ॐ कठोरपृष्टाय नमः । ॐ कुधराय नमः । ॐ कलुषीकृतसागराय नमः । ॐ कल्याणमूर्तये नमः । ॐ क्रतुभुक्प्रार्थनाधृत विग्रहाय नमः । १० ॐ कुलाचलसमुद्भ्रान्तिघृष्टकण्डूतिसौख्यवते नमः । ॐ करालश्वाससङ्क्षुब्धसिन्धूर्मिप्रहताम्बराय नमः । ॐ कन्धिकर्दमकस्तूरीलिप्तवक्षस्थलाय नमः । ॐ कृतिने नमः । ॐ कुलीरादिपयस्सत्त्वनिष्पेषणचतुष्पदाय नमः । ॐ कराग्रादत्तसम्भुक्ततिमिङ्गिलगिलोत्कराय नमः । ॐ कन्धिपुष्पद्विरेफाभाय नमः । ॐ कपर्द्यादिसमीडिताय नमः । ॐ कल्याणाचलतुङ्गात्मगाधीकृतपयोनिधये नमः । ॐ कुलिशत्पृष्ठसङ्घर्षक्षीणमूलकुलाचलाय नमः । २० ॐ काश्यपीसत्कुचप्रायमन्दराहतपृष्ठकाय नमः । ॐ कायैकदेशापर्याप्तशेषदिग्गजमण्डलाय नमः । ॐ कठोरचरणाघातद्वैधीकृतपयोनिधये नमः । ॐ कालकूटकृतत्रासाय नमः । ॐ काण्डदुर्मितवैभवाय नमः । ॐ कमनीयाय नमः । ॐ कविस्तुत्याय नमः । ॐ कनिधये नमः । ॐ कमलापतये नमः । ॐ कमलासनकल्याणसन्धात्रे नमः । ३० ॐ कलिनाशनाय नमः । ॐ कटाक्षक्षतदेवार्तये नमः । ॐ केन्द्रादिविधृतांजलये नमः । ॐ कालीपतिप्रीतिपात्राय नमः । ॐ कामितार्धप्रदाय नमः । ॐ कवये नमः । ॐ कूटस्थाय नमः । ॐ कूटकमठाय नमः । ॐ कूटयोगिसुदुर्लभाय नमः । ॐ कामहीनाय नमः । ४० ॐ कामहेतवे नमः । ॐ कामभृते नमः । ॐ कंजलोचनाय नमः । ॐ क्रतुभुग्दैन्यविध्वंसिने नमः । ॐ क्रतुभुक्पालकाय नमः । ॐ क्रतवे नमः । ॐ क्रतुपूज्याय नमः । ॐ क्रतुनिधये नमः । ॐ क्रतुत्रात्रे नमः । ॐ क्रतूद्भवाय नमः । ५० ॐ कैवल्यसौख्यदकथाय नमः । ॐ कैशोरोत्क्षिप्तमन्दराय नमः । ॐ कैवल्यनिर्वाणमयाय नमः । ॐ कैटभप्रतिसूदनाय नमः । ॐ क्रान्तसर्वाम्बुधये नमः । ॐ क्रान्तपातालाय नमः । ॐ कोमलोदराय नमः । ॐ कन्धिसोर्मिजलक्षौमाय नमः । ॐ कुलाचलकचोत्कराय नमः । ॐ कटुनिश्श्वासनिर्धूतरक्षस्तूलाय नमः । ६० ॐ कृताद्भुताय नमः । ॐ कौमोदकीहतामित्राय नमः । ॐ कौतुकाकलिताहवाय नमः । ॐ कराशिकंटकोद्धर्त्रे नमः । ॐ कविताब्धिमणीसुमाय नमः । ॐ कैवल्यवल्लरीकन्दाय नमः । ॐ कन्दुकीकृतचन्दिराय नमः । ॐ करपीतसमस्ताब्धये नमः । ॐ कायान्तर्गतवाश्चराय नमः । ॐ कर्पराब्जद्विरेफाभमन्दराय नमः । ७० ॐ कन्दलत्स्मिताय नमः । ॐ काश्यपीव्रततीकन्दाय नमः । ॐ कश्यपादिसमानताय नमः । ॐ कल्याणजालनिलयाय नमः । ॐ क्रतुभुङ्नेत्रनन्दनाय नमः । ॐ कबन्धचरहर्यक्षाय नमः । ॐ क्रान्तदर्शिमनोहराय नमः । ॐ कर्मठाविषयाय नमः । ॐ कर्मकर्तृभावादिवर्जिताय नमः । ॐ कर्मानधीनाय नमः । ८० ॐ कर्मज्ञाय नमः । ॐ कर्मपाय नमः । ॐ कर्मचोदनाय नमः । ॐ कर्मसाक्षिणे नमः । ॐ कर्महेतने नमः । ॐ कर्मज्ञानविभागकृते नमः । ॐ कर्त्रे नमः । ॐ कारयित्रे नमः । ॐ कार्याय नमः । ॐ कारणाय नमः । ॐ करणाय नमः । ॐ कृतये नमः । ॐ कृत्स्नाय नमः । ॐ कृत्स्नातिगाय नमः । ॐ कृत्स्नचेतनाय नमः । ॐ कृत्स्नमोहनाय नमः । ॐ करणागोचराय नमः । ॐ कालाय नमः । ॐ कार्यकारणतातिगाय नमः । ॐ कालावशाय नमः । १०० ॐ कालपाशबद्धभक्तावनाभिधाय नमः । ॐ कृतकृत्याय नमः । ॐ केलिफलाय नमः । ॐ कीर्तनीयाय नमः । ॐ कृतोत्सवाय नमः । ॐ कृतेतरमहानन्दाय नमः । ॐ कृतज्ञाय नमः । ॐ कृतसत्सुखाय नमः । १०८ ॥ इति ककारादि श्री कमठावताराष्टोत्तरशतम् पराभव वैशाख बहुलद्वादश्यां लिखितं रामेण समर्पितं च श्री हयग्रीवदेवाय ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu