अक्षर आकार:

कैवल्याष्टकम् अथवा केवलाष्टकम्

Kaivalyashtakam or Kevalashtakam

कैवल्याष्टकम् अथवा केवलाष्टकम्

मधुरं मधुरेभ्योऽपि मङ्गलेभ्योपि मङ्गलम् । पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥ १॥ आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत् । सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥ २॥ स गुरुः स पिता चापि सा माता बान्धवोऽपि सः । शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम् ॥ ३॥ निःश्र्वासे न हि विश्र्वासः कदा रुद्धो भविष्यति । कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥ ४॥ हरिः सदा वसेत्तत्र यत्र भगवता जनाः । गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥ ५॥ अहो दुःखं महादुःखं दुःखद् दुःखतरं यतः । काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥ ६॥ दीयतां दीयतां कर्णो नीयतां नीयतां वचः । गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥ ७॥ तृणीकृत्य जगत्सर्वं राजते सकलोपरि । चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥ ८॥ इति कैवल्याष्टकम् अथवा केवलाष्टकं सम्पूर्णम् । श्रीकृष्णार्पणमस्तु । इति नीलकण्ठगोस्वामी विरचितं केवलाष्टकं सम्पूर्णम् ॥ This is part of larger text, pancharatnam written by Nilantha Goswami.