अक्षर आकार:

कूर्मस्तुतिः २

Kurmastutih 2

कूर्मस्तुतिः २

निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् । प्रथम इह भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥ १॥ भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठ- कण्डूयनक्षणसुखायितगाढनिद्रः । सुष्वाप दीर्घतरघर्घरघोरघोषः श्वासाभिभूतजलधेः कमठः स वोऽव्यात् ॥ २॥ नमस्कुर्मः कूर्मं नमदमरकोटीरनिकर- प्रसर्पन्माणिक्यच्छविमिलितमाञ्जिष्ठवपुषम् । जरीजृम्भड्डिम्भद्युमणिरमणीयांशुलहरी- परीरम्भस्फूर्जद्बलभिदुपलाद्रिप्रतिभटम् ॥ ३॥ निष्प्रत्यूहमनल्पकल्पचरितस्त्रैलोक्यरक्षागुरुः क्रीडाकूर्मकलेबरः स भगवान्दिश्यादमन्दां मुदम् । कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः संलुठत् पृष्ठे यस्य बभूव सैकतकणच्छायं धरित्रीतलम् ॥ ४॥ इति कूर्मस्तुतिः २ समाप्ता ।