अक्षर आकार:

कूर्मस्तुतिः

Kurmastutih

कूर्मस्तुतिः

नमस्कुर्मः कूर्मं नमदमरकोटीरनिकर- प्रसर्पन्माणिक्यच्छविमिलितमाञ्जिष्ठवपुषम् । जरीजृम्भड्डिम्भद्युमणिरमणीयांशुलहरी- परीरम्भस्फूर्जद्वलभिदुपलाद्रिप्रतिभटम् ॥ १॥ पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनैः निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः । यत्संस्कारकलानुवर्तनवशाद्वेलाच्छलेनाम्भसां यातायातमतन्द्रितं जलनिधिर्नाद्यापि विश्राम्यति ॥ २॥ दृग्भ्यां यस्य विलोकनाय जगतो द्रागीषदुत्तोलित- ग्रीवाग्रोपरिविस्फुरद्ग्रहगणे छत्रायितायां भुवि । हा धिग्भूः किमभूदभूत्तदितरत्किं चेति पर्याकुलो हन्यादेव हठादघानि कमठाधीशः कठोराणि वः ॥ ३॥ यो धत्ते शेषनागं तमनु वसुमतीं स्वर्गपातालयुक्तां युक्तां सर्वैः समुद्रैर्हिमगिरिकनकप्रस्थमुख्यैर्नगेन्द्रैः । एतद्ब्रह्माण्डमव्याकृतघटसदृशं भाति वंशेऽसुरारेः पायाद्वः कूर्मदेहः प्रकटितमहिमा माधवः कामरूपी ॥ ४॥ इति कूर्मस्तुतिः समाप्ता ।