अक्षर आकार:

कृकारादि श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

kRikArAdi shrI kRiShNAShTottarashatanAmastotram

कृकारादि श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्

श्री हयग्रीवाय नमः । हरिः ॐ कृष्णः कृती कृपाशीतः कृतज्ञः कृष्णमूर्धजः । कृष्णाव्यसनसंहर्ता कृष्णाम्बुधरविग्रहः ॥ १॥ कृष्णाब्जवदनः कृष्णाप्रकृत्यङ्गः कृताखिलः । कृतगीतः कृष्णगीतः कृष्णगोपीजनाम्बरः ॥ २॥ कृष्णस्वरः कृत्तजिष्णुगर्वः कृष्णोत्तरस्रजः । कृतलोकेशसम्मोहः कृतदावाग्निपारणः ॥ ३॥ कृष्टोलूखलनिर्भिन्न यमलार्जुनभूरुहः । कृतगोवर्धनच्छत्रो कृताहिफणताण्डवः ॥ ४॥ कृत्ताघः कृत्तभक्ताघः कृतदैवतमङ्गलः । कृतान्तसदनाधीतगुरुपुत्रः कृतस्मितः ॥ ५॥ कृतान्तभगिनीवारिविहारी कृतवित्प्रियः । कृतगोवत्ससन्त्राणः कृतकेतरसौहृदः ॥ ६॥ कृत्तभूमिभरः कृष्णबन्धुः कृष्णमहागुरुः । कृष्णप्रियः कृष्णसखः कृष्णेशः कृष्णसारधिः ॥ ७॥ कृतराजोत्सवः कृष्णगोपीजनमनोधनः । कृष्णगोपीकटाक्षालि पूजितेन्दीवराकृतिः ॥ ८॥ कृष्णप्रतापः कृष्णाप्तः कृष्णमानाभिरक्षणः । कृपीटधिकृतावासः कृपीटरुहलोचनः ॥ ९॥ कृशानुवदनाधीशः कृशानुहुतखाण्डवः । कृत्तिवासस्स्म्ययाहर्ता कृत्तिवासोज्ज्वरार्दनः ॥ १०॥ कृत्तबाणभुजाबृन्दः कृतबृन्दारकावनः । कृतादियुगसंस्थाकृत्कृतसद्धर्मपालनः ॥ ११॥ कृतचित्तजनप्राणः कृतकन्दर्पविग्रहः । कृशोदरीबृन्दबन्दीमोचकः कृपणावनः ॥ १२॥ कृत्स्नवित्कृत्स्नदुर्ञ्जेयमहिमा कृत्स्नपालकः । कृत्स्नान्तरः कृत्स्नयन्ता कृत्स्नहा कृत्स्नधारयः ॥ १३॥ कृत्स्नाकृतिः कृत्स्नदृष्टिः कृच्छलभ्यः कृताद्भुतः । कृत्स्नप्रियः कृत्स्नहीनः कृत्स्नात्मा कृत्स्नभासकः ॥ १४॥ कृत्तिकानन्तरोद्भूतः कृत्तरुक्मिकचव्रजः । कृपात्तरुक्मिणीकान्तः कृतधर्मक्रियावनः ॥ १५॥ कृष्णपक्षाष्टमीचन्द्र फालभागमनोहरः । कृत्यसाक्षी कृत्यपतिः कृत्स्नक्रतु फलप्रदः ॥ १६॥ कृष्णवर्मलसच्चक्रः कृपीटजविभूषणः । कृताख्यारूपनिर्वाहः कृतार्थीकृतबाडबः ॥ १७॥ कृतवन्यस्रजाभूषः कृपीटजलसत्करः । कृपीटजालयावक्षाः कृतपादार्चनाम्बुजः ॥ १८॥ कृतिमेतरसौन्दर्यः कृतिमाशयदुर्लभः । कृततार्क्ष्यध्वजरधः कृतमोक्षाभिधेयकः ॥ १९॥ कृतीकृतद्वापरकः कृतसौभाग्यभूतलः । कृतलोकत्रयानन्दः कृतीकृतकलिप्रधः ॥ २०॥ कृतोत्तरागर्भरक्षः कृतधी कृतलक्षणः । कृतत्रिजगतीमोहः कृतदेवद्रुमाहृतिः ॥ २१॥ कृत्स्नानन्दः कृत्स्नदुःखदूरः कृत्स्नविलक्षणः । कृत्स्नांशः कृत्स्नजीवांशः कृत्स्नसत्तः कृतिप्रियः ॥ २२॥ ॥ इति श्री कृकारादि कृष्णाष्टोत्तरशतम् विश्वावसु श्रावणा बहुल चतुर्थी स्थिरवासरे रामेण लिखितं समर्पितं च श्री हयग्रीवाय ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu