अक्षर आकार:

कृकारादि श्रीकृष्णाष्टोत्तरशतनामावलिः

kRikArAdi shrI kRiShNAShTottarashatanAmAvaliH

कृकारादि श्रीकृष्णाष्टोत्तरशतनामावलिः

श्री हयग्रीवाय नमः । हरिः ॐ ॐ कृष्णाय नमः । ॐ कृतिने नमः । ॐ कृपाशीताय नमः । ॐ कृतज्ञाय नमः । ॐ कृष्णमूर्थजाय नमः । ॐ कृष्णाव्यसनसंहर्त्रे नमः । ॐ कृष्णाम्बुधरविग्रहाय नमः । ॐ कृष्णाब्जवदनाय नमः । ॐ कृष्णाप्रकृत्यङ्गाय नमः । ॐ कृताखिलाय नमः । १० ॐ कृतगीताय नमः । ॐ कृष्णगीताय नमः । ॐ कृष्णगोपीजनाम्बराय नमः । ॐ कृष्णस्वराय नमः । ॐ कृत्तजिष्णुगर्वाय नमः । ॐ कृष्णोत्तरस्रजाय नमः । ॐ कृतलोकेशसम्मोहाय नमः । ॐ कृतदावाग्निपारणाय नमः । ॐ कृष्टोलूखलनिर्भिन्न यमलार्जुनभूरुहाय नमः । ॐ कृतगोवर्धनच्छत्राय नमः । २० ॐ कृताहिफणताण्डवाय नमः । ॐ कृत्ताघाय नमः । ॐ कृत्तभक्ताघाय नमः । ॐ कृतदैवतमङ्गलाय नमः । ॐ कृतान्तसदनानीतगुरुपुत्राय नमः । ॐ कृतस्मिताय नमः । ॐ कृतान्तभगिनीवारि विहारिणे नमः । ॐ कृतवित्प्रियाय नमः । ॐ कृतगोवत्ससन्त्त्राणाय नमः । ॐ कृतकेतरसौहृदाय नमः । ३० ॐ कृत्तभूमिभराय नमः । ॐ कृष्णबन्धवे नमः । ॐ कृष्णमहागुरवे नमः । ॐ कृष्णप्रियाय नमः । ॐ कृष्णसखाय नमः । ॐ कृष्णेशाय नमः । ॐ कृष्णसारधये नमः । ॐ कृतरासोत्सवाय नमः । ॐ कृष्णगोपीजनमनोधनाय नमः । ॐ कृष्णगोपीकटाक्षालि पूजितेन्दीवराकृतये नमः । ४० ॐ कृष्णप्रतापाय नमः । ॐ कृष्णाप्ताय नमः । ॐ कृष्णमानाभिरक्षणाय नमः । ॐ कृपीटधिकृतावासाय नमः । ॐ कृपीटरुहलोचनाय नमः । ॐ कृशानुवदनाधीशाय नमः । ॐ कृशानुहुतखाण्डवाय नमः । ॐ कृत्तिवासस्स्मयाहर्त्रे नमः । ॐ कृत्तिवासोज्ज्वरार्दनाय नमः । ॐ कृत्तबाणभुजाबृन्दाय नमः । ५० ॐ कृतबृन्दारकावनाय नमः । ॐ कृतादियुगसंस्थाकृते नमः । ॐ कृतधर्मपालनाय नमः । ॐ कृतचित्तजनप्राणाय नमः । ॐ कृतकन्दर्पविग्रहाय नमः । ॐ कृशोदरीबृन्दबन्दीमोचकाय नमः । ॐ कृपणावनाय नमः । ॐ कृत्स्नविदे नमः । ॐ कृत्स्नदुर्ञ्जेयमहिम्ने नमः । ॐ कृत्स्नपालकाय नमः । ६० ॐ कृत्स्नान्तराय नमः । ॐ कृत्स्नयन्त्रे नमः । ॐ कृत्स्नहने नमः । ॐ कृत्स्नधारकाय नमः । ॐ कृत्स्नाकृतये नमः । ॐ कृत्स्नदृष्टये नमः । ॐ कृच्छलभ्याय नमः । ॐ कृताद्भुताय नमः । ॐ कृत्स्नप्रियाय नमः । ॐ कृत्स्नहीनाय नमः । ७० ॐ कृत्स्नात्मने नमः । ॐ कृत्स्नभासकाय नमः । ॐ कृत्तिकानन्तरोद्भूताय नमः । ॐ कृत्तरुक्मिकचव्रजाय नमः । ॐ कृपात्तरुक्मिणीकान्ताय नमः । ॐ कृतधर्मक्रियावनाय नमः । ॐ कृष्णपक्षाष्टमीचन्द्रफालभागमनोहराय नमः । ॐ कृत्यसाक्षिणे नमः । ॐ कृत्यपतये नमः । ॐ कृत्स्नक्रतुफलप्रदाय नमः । ८० ॐ कृष्णवर्मलसच्चक्राय नमः । ॐ कृपीटजविभूषणाय नमः । ॐ कृताख्यारूपनिर्वाहाय नमः । ॐ कृतार्धीकृतबाडबाय नमः । ॐ कृतवन्यस्रजाभूषाय नमः । ॐ कृपीटजलसत्काराय नमः । ॐ कृपीटजालयावक्षसे नमः । ॐ कृतपादार्चनाम्बुजाय नमः । ॐ कृतिमेतरसौन्दर्याय नमः । ॐ कृतिमाशयदुर्लभाय नमः । ९० ॐ कृततार्क्ष्यध्वजारधाय नमः । ॐ कृतमोक्षाभिधेयकाय नमः । ॐ कृतीकृतद्वापरकाय नमः । ॐ कृतसौभाग्यभूतलाय नमः । ॐ कृतलोकत्रयानन्दाय नमः । ॐ कृतीकृतकलिप्रधाय नमः । ॐ कृतोत्तरागर्भरक्षाय नमः । ॐ कृतधिये नमः । ॐ कृतलक्षणाय नमः । ॐ कृतत्रिजगतीमोहाय नमः । १०० ॐ कृतदेवद्रुमाहृतये नमः । ॐ कृत्स्नानन्दाय नमः । ॐ कृत्स्नदुःखदूराय नमः । ॐ कृत्स्नविलक्षणाय नमः । ॐ कृत्स्नांशाय नमः । ॐ कृत्स्नजीवांशाय नमः । ॐ कृत्स्नसत्ताय नमः । ॐ कृतिप्रियाय नमः । १०८ ॥ इति कृवर्णादि श्री कृष्णाष्टोत्तरशतम् रामेण लिखितं समर्पितं च श्री हयग्रीवाय विश्वावसु श्रावणाशुद्ध चतुर्दश्याम् ॥ Source Book: shrI dashAvatArAShTottarashatanAmAvaliH savyAkhyA language: Telugu